________________
६३४
प्रमेयकमलमार्तण्डै [५. तदामासपरि० तीतेः । अविनाभावनिवन्धनो हि गस्यगमकभावः, नातु व्यति करणाव्यधिकरणनिवन्धनः स श्यामस्तत्पुत्रत्वान, धवला प्रासादः काकस्य कार्यात्' इत्यादिवत् ।
ने च व्यधिकरणस्थापि गमकत्वे अविद्यमानसत्ताकत्वलक्षण५मसिद्धत्वं विरुध्यते; न हि पक्षेऽविद्यमानसत्ताकोऽसिद्धोऽभि. प्रतो गुरूणाम् । किं तर्हि ? अविद्यमाना साध्येनासाध्येनोभयेन वाऽविनाभाविनी सत्ता यस्यासावसिद्ध इति ।
भागासिद्धस्याप्यविनाभावसद्भावाद्गमकत्वमेव । न खलु प्रयनानन्तरीयकत्वमनित्यत्वमन्तरेण क्वापि दृश्यते । याति च १० तत्प्रवर्त्तते तावतः शब्दस्यानित्यत्वं ततः प्रसिद्धयति, अन्यस्य त्वन्यतः कृतकत्वादेरिति । यद्वा-'प्रयत्नानन्तरीयकत्वहेतूपादानसामर्थ्यात् प्रयत्नानन्तरीयक एव शब्दोत्र पक्षः । तत्र चास्य सर्वत्र प्रवृत्तेः कथं भागासिद्धत्वमिति ?
अथेदानीं द्वितीयमसिद्धप्रकारं व्याचष्टे१५ अविद्यमाननिश्चयो मुग्धबुद्धिं प्रत्यग्निरत्र
धूमादिति ॥२५॥ कुतोस्याविद्यमाननियततेत्याहतस्य बाष्पादिभावेन भूतसंघाते
सन्देहात् ॥ २६ ॥ २० मुग्धबुद्धेर्बाष्पादिभावेन भूतसंघाते सन्देहात्। न खलु साध्य
साधनयोरव्युत्पन्नप्रज्ञः 'धूमादिरीदृशो बाष्पादिश्चेदृशः' इति विवेचयितुं समर्थः।
साङ्ख्यं प्रति परिणामी शब्दः
कृतकत्वादिति ॥ २७॥ २५ चाविद्यमाननिश्चयः। कुत एतत् ?
तेनाज्ञातत्वात् ॥ २८॥ १ भव्यधिकरणव्यधिकरणत्वमुभयत्रास्ति तथाप्यविनाभावाभावेनासद्धेतुत्वमिति भावः। २ न चाशनीयम् । ३ दृष्टान्तेन । ४ हेतोः। ५ साधनम् । ६ पुरुषम्यापारोत्पन्ने शब्दे । ७ मेघादिशब्दस्य धर्मिरूपस्य । ८ पृथिव्यादिलक्षणानां भूतानां संघातो धूमस्तस्मिन् धूमे। ९ विधमानधूमेपि ।