SearchBrowseAboutContactDonate
Page Preview
Page 793
Loading...
Download File
Download File
Page Text
________________ सू० ६१७-१९] अनुमानाभासविचारः ६३१ तत्रानुमानाभासेऽनिष्टादिः पक्षाभासः। तत्रअनिष्टो मीमांसकस्याऽनित्यः शब्द इति ॥ १३ ॥ • स हि प्रतिवाद्यादिदर्शनात्कदाचिदाकुलितबुद्धिर्विसैरन्ननभिप्रे. तमपि पक्षं करोति। तथा सिद्धः श्रावणः शब्दः ॥ १४॥ सिद्धः पक्षानासः, यथा श्रावणः शब्द इति, वादिप्रतिवादिनोस्तत्राऽविप्रतिपत्तेः। तथाबाधितः प्रत्यक्षानुमानागमलोकस्ववचनैः ॥१५ १३ पक्षाभासो भवति । तत्र प्रत्यक्षवाधितो यथा____ अनुष्णोग्निद्रव्यत्वाजलवत् ॥ १६ ॥ अनुमानवाधितो यथाअपरिणामी शब्दः कृतकत्वाद्धटवत् ॥ १७ ॥ तथाहि-परिणामी शब्दोऽर्थक्रियाकारित्वात्कृतकत्वाद् घटवत्' इति अर्थक्रियाकारित्वादयो हि हेतवो घटे परिणामित्वे १५ सत्येवोपलब्धाः, शब्देप्युपलभ्यमानाः परिणामित्वं प्रसाधयन्ति इति 'अपरिणामी शब्दः' इति पक्षस्यानुमानबाधा। आगमबाधितो यथाप्रेत्याऽसुखप्रदो धर्मः पुरुषाश्रितत्वादधर्म वदिति ॥ १८॥ आगमे हि धर्मस्याभ्युदयनिःश्रेयसहेतुत्वं तद्विपरीतत्वं चाध. मस्य प्रतिपाद्यते । प्रामाण्यं चास्य प्रागेव प्रतिपादितम् । लोकबाधितो यथाशुचि नरशिरःकपालं प्राण्यङ्गत्वाच्छवशुक्ति. वदिति ॥ १९॥ २५ १ बाधितः। २ आदिना सभ्यसभापत्यादिग्रहः। ३ स्वाभिप्रेतं नित्यः अन्द इति पक्षम् ।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy