________________
६३०
प्रमेयकमलमार्तण्डे [५. तदाभासपरि० भासं वौद्धस्याकस्मिकधूमदर्शनाद्वह्निविज्ञानवत् इत्यप्युक्तं प्रए. वतः प्रत्यक्षपरिच्छेदे। वैशद्यपि परोक्षं तदाभासं भीमालकस्य
करणज्ञानवत् ॥ ७॥ ५ न हि करणज्ञानेऽव्यवधानेन प्रतिभासलक्षणं वैशद्यमसिद्ध स्वार्थयोः प्रतीत्यन्तरनिरपेक्षतया तत्र प्रतिभासनादित्युक्तं तत्रैव।
तथाऽनुभूतेथें तदित्याकारा स्मृतिरित्युक्तम् । अननुभूते.. अतस्मिंस्तदिति ज्ञानं स्मरणाभासं जिनदत्ते
स देवदत्तो यथेति ॥८॥ १० तथैकत्वादिनिबन्धनं तदेवेदमित्यादि प्रत्यभिज्ञानमित्युक्तम् । तद्विपरीतं तु
सदृशे तेदेवेदं तस्मिन्नेव तेन सदृशं यमलकवदित्यादि प्रत्यभिज्ञानाभासम् ॥ ९॥
असम्बन्धे तज्ज्ञानं तर्काभासम् , यावाँस्त१५ पुत्रः स श्यामः इति यथा ॥१०॥
व्याप्तिज्ञानं तर्क इत्युक्तम् । ततोन्यत्पुनः असम्बन्धे-अव्याप्तौ तज्ज्ञानं-व्याप्तिज्ञानं तर्कामासम् । यावास्तत्पुत्रः स श्याम इति यथा।
इदमनुमानाभासम् ॥ ११ ॥ २० साधनात्साध्यविज्ञानमनुमानमित्युक्तम् । तद्विपरीतं त्विदं
वक्ष्यमाणमनुमानाभासम् । पक्षहेतुदृष्टान्तपूर्वकश्चानुमानप्रयोगः प्रतिपादित इति । तत्रेत्यादिना यथाक्रमं पक्षाभासादीनुदाहरति। - तत्र अनिष्टादिः पक्षाभासः॥ १२ ॥
१ यथा धूमबाष्पादिविवेकनिश्चयाभावाव्याप्तिग्रहणाभावादकस्माद्भूमदर्शनाज्जातं यद्वह्रिविज्ञानं तत्तदाभासं भवति कस्मादनिश्चयात् , तथा बौद्धपरिकल्पितं यन्निर्विकल्पकप्रत्यक्षं तत् प्रत्यक्षाभासं भवति कस्मादनिश्चयात् । २ एकत्वप्रत्यभिज्ञानाभासम् । ३ सादृश्यप्रत्यभिशानाभासम् , स्वयं स्वेन सदृशमित्यर्थः । ४ यमलकं युगलम् । ५ अविनाभावाभावे ।