SearchBrowseAboutContactDonate
Page Preview
Page 791
Loading...
Download File
Download File
Page Text
________________ श्री। अथ पञ्चमः परिच्छेदः ॥ अथेदानी तदानालस्वरूप निरूपणाय हतोन्यत्तदानास इत्याधाह! प्रतिपादितस्वरूपात्प्रमाणसंख्याप्रमेयफलाद्यदन्यत्तत्तदासासमिति। तदेव तथाहीत्यादिना यथाक्रमं व्याचष्टे । तत्र प्रतिपादि-५ तखरूपात्स्वार्थव्यवसायात्मकप्रमाणादन्येअक्षेसंविदितगृहीतार्थदर्श संशयायः प्रमाणाभासाः ॥ २॥ प्रवृत्तिविषयोपदर्शकत्वाभावात् ॥ ३॥ पुरुषान्तरपूर्वार्थगच्छत्तृणस्पर्शस्थाणुपु. १० . रुषादिज्ञानवत् ॥ ४॥ चक्षुरसयोर्द्रव्ये संयुक्तसमवायच ॥ ५॥ एतच्च सर्व प्रमाणसामान्यलक्षणपरिच्छेदे विस्तरतोऽभिहितमिति पुनर्नेहाभिधीयते । तथा अवैशये प्रत्यक्षं तदाभासं बौद्धस्याकस्मा- १५ झूमदर्शनाद् वह्निविज्ञानवत् ॥ ६॥ विशदं प्रत्यक्षमित्युक्तं ततोन्यस्मिन्नऽवैशघे सति प्रत्यक्षं तदा १ तेषां प्रमाणसंख्याविषयफलानाम् । २ अस्वसंविदितस्य स्वग्राहकत्वाभावेनार्थप्रतिपत्त्ययोगात्प्रवृत्तिविषयोपदर्शकत्वाभावः । ३ निर्विकल्पकं दर्शनम् , तस्य प्रवृत्तिविषयोपदर्शकत्वाभावस्तज्जनितविकल्पस्यैव तदुपदर्शकत्वात् । ४ आदिना विपर्ययानध्यवसायौ। ५ अत्रोदाहरणानि यथाक्रममाह। ६ सन्निकर्षवादिनं प्रत्यपरं च दृष्टान्तमाह । ७ अयमर्थो-यथा चक्षुरसयोः संयुक्तसमवायः सन्नपि न प्रमाणं तथा चक्षुरूपयोरपि । तस्मादयमपि प्रमाणाभास एवेति ।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy