________________
६२४
प्रमेयकमलमार्तण्डे ४. विषयपरि० त्पत्तौ साधारण निमित्तम् ? सहकारिमात्रत्वेने चेत; ताई सकलार्थगतिस्थितीनां सद्भुवां धर्माधों सहकारिमात्रत्वेन साधारणं निमित्तं किन्नेष्यते ?
प्रथिव्यादिदेव साधारणं निमित्तं तासाम्; इत्यप्यसकतम, ५ गगनवर्तिपदार्थगतिस्थितीनां तदसम्भवात् । तर्हि नभः साधारण निमित्तं तासामस्तु सर्वत्र भावात् ; इत्यप्यपेशलम् । तस्यावगाह निमित्तत्वप्रतिपादनात् । तस्यैकस्यैवानेकेकार्यनिमित्ततायाम अनेकसर्वगतपदार्थपरिकल्पनानर्थक्यप्रसङ्गात्, कालात्मदि
क्सामान्यसमवायकार्यस्यापि योगपद्यादिप्रत्ययस्य वुद्ध्यादेः १० इदमतः पूर्वण' इत्यादिप्रत्ययस्य अन्वयज्ञानस्य 'इहेदम्' इति
प्रत्ययस्य च नमोनिमित्तस्योपपत्तेस्तस्य सर्वत्र सर्वदा सद्भावात् । कार्यविशेषात्कालादिनिमित्तभेद्व्यवस्थायाम् तत एव धर्मादिनिमित्तभेदव्यवस्थाप्यस्तु सर्वथा विशेषाभावात्।
एतेनादृष्टनिमित्तत्वमप्यासां प्रत्याख्यातम् ; पुद्गलानामदृष्टा१५ सम्भवाच्च । ये यदात्मोपभोग्याः पुद्गलास्तद्गतिस्थितयस्तदा
त्माऽदृष्टनिमित्ताश्चेत् ; तासाधारणं निमित्तमदृष्टं तासांप्रति. नियतात्मादृष्टस्य प्रति नियतद्रव्यगतिस्थितिहेतुत्वप्रसिद्धः । न च तनिष्टं तासां क्षमादेरिवासाधारणकारणस्यादृष्टस्यापीष्टत्वात् । साधारणं तु कारणं तासां धर्माधर्मावेवेति सिद्धः कार्यविशेषा२० त्तयोः सद्भाव इति ।
अथेदानीं फैलविप्रतिपत्तिनिराकरणार्थमज्ञाननिवृत्तिरित्याद्याह
अज्ञाननिवृत्तिः हानोपादानोपेक्षाश्च
__फलम् ॥ ५॥१॥ २५ प्रमाणादभिन्नं भिन्नं च ॥ ५॥२॥
१ तस्याः। २ अनेकानि-गतिस्थित्यवगाहलक्षणानि । ३ कार्यविशेषत्वस्य । ४ सकृद्भवां सकलार्थगतिस्थितीनां नभोनिमित्तत्वनिराकरणेन । ५ तेषां पुद्गलानाम् । ६ येनात्मना ते पुद्गला उपभुज्यन्ते तस्य । ७ गत्यादीनाम् । ८ पृथिव्यादेः । ९ जनानाम्। १० विषयविप्रतिपत्तिनिराकरणानन्तरम् । ११ प्रमाणाद्भिन्नमेव 'फलमिति यौगाः अभिन्नमेवेति सौगता इति भिन्नाभिन्नत्वाभ्यां फले विप्रतिपत्तिः ।
* ( परीक्षामुखे-प्रमेयरत्नमालायां च अत्रैव चतुर्धपरिच्छेदस्य समाप्तिः अशाननिवृत्तिः' इत्यादिसूत्रं तु पंचमाध्याये संगणितम् )