SearchBrowseAboutContactDonate
Page Preview
Page 787
Loading...
Download File
Download File
Page Text
________________ फलस्वरूपविचारः ६२५ द्विविधं हि प्रमाणस्य फलं ततो भिन्नम्, अभिन्नं च । तत्राज्ञाननिवृत्तिः प्रमाणादभिन्नं फलम् । ननु चाज्ञाननिवृत्तिः प्रमाणभूतज्ञानमेव, न तदेव तस्यैव कार्य युक्तं विरोधात्, तत्कुतोसौ प्रमाणफलम् ? इत्यनुपपन्नम् यतोऽज्ञानमज्ञतिः स्वपररूपयोर्व्यामोहः, तस्य निवृत्तिर्यथावत्तद्रूपयोज्ञप्तिः, प्रमाणधर्मत्वात् तत्कार्यतया ५ न विरोधमध्यास्ते । स्वविपये हि स्वार्थस्वरूपे प्रमाणस्य व्यामोहविच्छेदाभावे निर्विकल्पकदर्शनात् सन्निकर्याच्चाविशेषप्रसङ्गतः प्रामाण्यं न स्यात् । न च धर्मधर्मिणोः सर्वथा होवो वा तद्भावविरोधानुषङ्गात् तदन्यतरवदर्थान्तरवच्च । सू० ४।१०] 1. अथाज्ञाननिवृत्तिर्ज्ञानमेवेत्यनयोः सामर्थ्यासिद्धत्वान्यथानुपप- १० तेरभेदः तन्नः अस्याऽविरुद्धत्वात् । सामर्थ्यसिद्धत्वं हि दे सत्येवोपलब्धं निमन्त्रणे आकारणवत् । कथं चैवं वादिनो हेतावन्वयव्यतिरेकधर्म योर्भेदः सिध्येत् ? 'साध्यसद्भावेऽस्तित्वमेव हि साध्याभावे हेतोर्नास्तित्वम्' इत्यनयोरपि सामर्थ्यासिद्धत्वा • विशेषात् । १५ १२ न चानयोरभेदे कार्यकारणभावो विरुध्यते; अभेदस्य तद्भावाविरोधकत्वाजीव सुखादिवत् । साधकतमस्वभावं हि प्रमाणम् स्वपररूपयोज्ञप्तिलक्षणामज्ञाननिवृत्तिं निर्वर्त्तयति तत्रान्येनास्या निर्वर्त्तनाभावात् । साधकतमस्वभावत्वं चास्य स्वपरग्रहणव्यापार एव तग्रहणाभिमुख्यलक्षणः । तद्धि स्वकारणकलापादुपजायमानं २० स्वपरग्रहणव्यापारलक्षणोपयोगरूपं सत्स्वार्थव्यवसायरूपतया परिणमते इत्यभेदेऽप्येनयोः कार्यकारणभावाऽविरोधः । नन्वेवमज्ञान निवृत्तिरूपतयेव हाँनादिरूपतयाप्यस्य परिणमनसम्भवात् तदप्यस्याऽभिन्नमेव फलं स्यात् इत्यप्यसुन्दरम् ; अज्ञा• ननिवृत्तिलक्षणफलेनास्यै व्यवर्धीनसम्भवतो भिन्नत्वाविरोधात् । २५ १ सौगतः प्राह । २ अज्ञाननिवृत्तेः । ३ प्रमाणविषये । ४ प्रमाणधर्मत्वादित्यतस्याऽसिद्धत्वनिरासार्थमिदम् । ५ शानाज्ञाननिवृत्त्योः सामर्थ्यमस्ति तच्चामेदमन्तरेण - नोपपद्यते तस्मादनयोरभेद इति भावः । ६ अभेदमन्तरेण । ७ भेदस्य ॥ ८ आह्वानवत् । ९ अज्ञाननिवृत्तिर्ज्ञानमेवेत्यनयोः सामर्थ्यसिद्धत्वान्यथानुपपत्तेरभेद इत्येवंवादिनः । १० नन्वज्ञाननिवृत्तिः प्रमाणादभिन्नं फलमित्यनेन प्रकारेण प्रमाणफलयोरभेदे कार्यकारणभावो विरुध्यत इत्युक्ते सत्याह । ११ प्रमाणाज्ञाननिवृत्त्योः । १२ सन्निकर्षादिना । १३ अर्धग्रहणे व्यापारो छुपयोग इति वचनात् । १४ प्रमाणफलयोः । १५ साक्षात्फलमेतत् । १६ परम्पराफलमेतत् । १७ हानादेः । १८ प्रमाणादशाननिवृत्तिः फलं स्यात्, अज्ञाननिवृत्तिफलात्पश्चाद्धानोपादानोपेक्षाश्च फलं स्यादिति भावः । प्र० क० मा० ५३
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy