SearchBrowseAboutContactDonate
Page Preview
Page 785
Loading...
Download File
Download File
Page Text
________________ ६२३ सू० ४.१०] धर्माधर्मद्रव्यविचारः तनतया प्रतिभासामावः; नं; युतसिद्धत्वस्योपरितनत्वप्रतीत्यहेतुत्वात् , अन्यथोविस्थितवंशादेः क्षीरनीरयोश्च सम्वन्धे तत्प्रसङ्गात् । ततः परपरिकल्पितपदार्थानां विचार्यमाणानां स्वरूपाव्यवस्थितेः कथं 'पडेय पदार्थाः' इत्यवधारणं घटते स्वरूपासिद्धौ संख्यासिद्धेरभावात् ? प्रमाणप्रमेयसंशयप्रयोजनदृष्टान्तसिद्धान्तात्रयवतर्कनिर्णयवादजल्पवितण्डाहेत्वाभासच्छल जाति निग्रहस्थानानां नैयायिकाभ्युपगतषोडशपदार्थानां पट्पदार्थाधिक्येन व्यवस्थानाच । न च पदार्थषोडशकस्य षट्स्लेवान्तर्भावानातोधिकपदार्थव्यवस्थेत्यभिधातव्यम् ; द्रव्यादीनामपि षण्णां प्रमाणप्रमेयरूपपदार्थद्वये-१० ऽन्तर्भावात्पदार्थषट्कस्याप्यनुपपत्तेः । अथ तदन्तर्भावेप्यवान्तरविभिन्नलक्षणवशात् प्रयोजनवशाच द्रव्यादिषट्कव्यवस्था; तर्हि तत एव प्रमाणादिषोडशव्यवस्थाप्यस्तु विशेषाभावात् । न च सापि युक्ता; परोपगतस्वरूपाणां प्रमाणादीनां यथास्थानं प्रतिषेधात्, विपर्ययानध्यवसाययोश्च प्रमाणादिपोडशपदार्थेभ्यो-१५ ऽर्थान्तरभूतयोः प्रतीतेः। धर्माधर्मद्रव्ययोश्च। कुतः प्रमाणातत्तिद्धिरिति चेत् ? अनुमानात्; तथाहि-विवादापन्नाः सकलजीवपुरलाश्रयाः सकृद्तयः साधारणवाह्यानिमित्तापेक्षाः, युगपद्भाविगतित्वात् , एकसरःसलिला श्रयानेकमत्स्यगतिवत् । तथा सकलजीवपुद्गलस्थितयः२० साधारणवाह्यनिमित्तापेक्षाः, युगपद्भाविस्थितित्वात् , एककु. ण्डाश्रयानेकबदरादिस्थितिवत् । यत्तु साधारणं निमित्तं स धर्मोऽधर्मश्च, ताभ्यां विना तंद्रतिस्थितिकार्यस्यासम्भवात् । गतिस्थितिपरिणामिन एवार्थाः परस्परं तद्धेतवश्चेत्, न; अन्योन्याश्रयानुपङ्गात्-सिद्धायां हि तिष्ठत्पदार्थेभ्यो गच्छत्पदा-२५ र्थानां गतौ तेभ्यस्तिष्ठत्पदार्थानां स्थितिसिद्धिः, तत्सिद्धौ च गच्छत्पदार्थानां गतिसिद्धिरिति । साधारणनिमित्तरहिता एवाखिलार्थगतिस्थितयः प्रतिनियतखकारणपूर्वकत्वादिति चेत्; कथमिदानीं नर्तकीक्षणो निखिलप्रेक्षकजनानां नानातवेदनो १ इति चेन्न इत्यर्थः । २ युतसिद्धयोः। ३ उपरितनतया प्रतिभासस्य । ४ प्रमाणप्रमेयपदार्थद्वयेन्तभावः षण्णां विश्वतत्त्वप्रकाशिकायाम्। ५ विभिन्नलक्षणवशात्प्रयोजनवशाच्च द्रव्यादिषट्कव्यवस्था भवति प्रमाणादिषोडशव्यवस्था च न भवतीति विशेष नोत्पश्यामः। ६ बसः। ७ बाह्यं निमित्तं धर्मः। ८ अत्र निमित्तमधर्मः । ९ तस्य सकलजीवादेः। १० नर्तकी एव क्षणः पर्यायः । ११ कामोत्कटहर्षादि ।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy