________________
६२२
प्रमेयकमलमार्तण्डे [४. विषयपरि० वायिनोः सम्बन्धबुद्धिनिवन्धनम् ? न ह्यङ्गुल्योः संयोगो पटयोरप्रवर्त्तमानस्तयोः सम्वन्धबुद्धिनिवन्धनं दृष्टः । तथा. 'इहात्मनि ज्ञानमित्यादिसम्बन्धबुद्धिर्न सम्बन्ध्यऽसम्बद्धसम्ब न्धपूर्विका सम्वन्धवुद्धित्वात् दण्डपुरुषसम्बन्धबुद्धिवत्' इत्यनु५मानविरोधश्च।
किञ्च, अयं समवायः समवायिनो परिकल्प्यते, असमवाय. नोर्वा ? यद्यसमवायिनोः; घटपटयोरप्येतत्प्रसङ्गः । अथ समः वायिनो, कुतस्तयोः समवायित्वम्-समवायात्, खतो वा?
समवायाचेत् ; अन्योन्याश्रयः-सिद्धे हि समवायित्वे तयोः समः १० वायः, तस्साच्च तत्त्वमिति ।
किञ्च, अभिन्नं तेनानयोः समवायित्वं विधीयते, भिन्नं वा ? न तावदभिन्नम्। तद्विधाने गगनादीनां विधानानुषङ्गात् । भिन्नं चेत्, तयोस्तत्सम्बन्धित्वानुपपत्तिः। सम्वन्धान्तरकल्पने चानवस्था। तत एव तनियमे चेतरेतराश्रय:-सिद्धे हि समवायिनोः १५ समवायित्वनियमे समवायनियमसिद्धिः, ततश्च तन्नियमसिद्धि. रिति । स्वत एव तु समवायिनोः समवायित्वे किं समवायेन ?
ननु संयोगेप्येतत्सर्वं समानम् ; इत्यप्यवाच्यम् ; संश्लिष्टतयोत्पन्नवस्तुखरूपव्यतिरेकेणास्याप्यसम्भवात् । भिन्नसंयोगवशात्तु संयोगिनोर्नियमे समानमेवैतत्। २० यच्चान्यदुक्तम्-संयोगिद्रव्यविलक्षणत्वाहुणत्वादीनामित्यादि
तदप्यनुक्तसमम् । यतो निष्क्रियत्वेप्येषामाधेयत्वमल्पपरिमाणत्वात् , तत्कार्यत्वात्, तथाप्रतिभासाद्वा? तत्राद्यः पक्षोऽयुक्तः, सामान्यस्य महापरिमार्णगुणस्य चानाधेयत्वप्रसंङ्गात् । द्वितीय पक्षोप्यत एवायुक्तः। २५ तृतीयपक्षोप्यविचारितरमणीयः, तेषामाधेयतया प्रतिभासा
भावात् । तद्भावश्च रूपादीनां वाधारेवन्तर्वहिश्च सत्त्वात् । न हन्यत्र कुण्डादावधिकरणे बदरादीनामाधेयानां तथा सत्त्वमस्ति । अथ रूपादीनामाधेयत्वे सत्यपि युतसिद्धेरभावादुपरि
१ सम्बन्धी । २ घटपटाभ्यां पृथग्भूतः। ३ शब्दगगनाभ्यां समवाय्यभिन्नस्य समवायित्वस्य समवायेन विधानात्तयोरपि विधानमित्यर्थः, एवं शानात्मादिष्वपि । ४ समवायिनोरिदं समवायित्वमिति सम्बन्धाभाव इति भावः। ५ तत्सम्बन्धित्वसिमर्थम् । ६ तस्य-गुण्यादेः। ७ आधेयतया। ८ गगनवत्तिनः। ९ अल्पपरिमाणत्वाभावात् । १० घटादिषु। ११ आधेयस्य बहिरेव सत्त्वसद्भावादिति भावः । १२ अन्तर्बहिःप्रकारेण।