SearchBrowseAboutContactDonate
Page Preview
Page 772
Loading...
Download File
Download File
Page Text
________________ ६१० प्रमेयकमलमार्त्तण्डे [ ४. विषयपरि० न चातो लक्षणात्समवायः सिद्ध्यति व्यभिचारात् । तथाहि - निय. मेनायुतसिद्धसम्बन्धत्वमाधाराधेयभूत सम्बन्धत्वं च ' आकाशे वाच्ये वाचकस्तच्छन्दः' इति वाच्यवाचकभावे 'आत्मनि विषय. भूते अहमिति ज्ञानं विषयि' इति विषयविषयिभावे च विद्यते ५ इति । ननु सर्वस्य वाच्यवाचकवर्गस्य विषयविषयिवर्गस्य च नियमेनायुत सिद्धसम्वन्धत्वासम्भवो युतसिद्धेष्वप्यस्य सम्भ वाटतच्छब्दज्ञानैवत्, अतो न व्यभिचारः इत्यप्यसारम् वर्गापेक्षयापि लक्षणस्य विपक्षकदेशवृत्तेर्व्यभिचारित्वात् । इष्टं च विपक्षैकदेशादव्यावृत्तस्य सर्वैरप्यनैकान्तिकत्वम् । १० यच्चोक्तम्-तन्तुपटादयः संयोगिनो न भवन्तीत्यादिः तत्स त्यम् ; तत्र तादात्म्योपगमात् । यत्तूक्तम् - प्रत्यक्षत एवं समवायः प्रतीयत इत्यादि, तदयुक्तम्: असाधारणस्वरूपत्वे हि सिद्धे सिध्येदर्थानां प्रत्यक्षता पृथुवुनोदराद्याकारघटादिवत् । न चास्य तत्सिद्धम् । तद्धि किमयुतसिद्ध१५ सम्बन्धत्वम्, सम्बन्धमात्रं वा ? न तावदयुत सिर्द्धसम्बन्धत्वम् सर्वैरप्रतीयमानत्वात् । यत्पुनर्यस्य स्वरूपं तत्तेनैव स्वरूपेण सर्वस्यापि प्रतिभासते यथा पृथुवुनोदराद्याकारतया घट इति । न चैकैस्य सामान्यात्मकं स्वरूपं युक्तम्: समानानामभावे सामान्याभावाद्गगने गगनत्ववत् । नापि सम्वन्धमात्रं समवायस्यासा२० धारणं स्वरूपम् ; संयोगादावपि सम्भवात् । " किञ्च तद्रूपतयासौ सम्बन्धबुद्धौ प्रतिभासेत, इहेति प्रत्यये वा, समवाय इत्यनुभवे वा ? यदि सम्बन्धबुद्धौ, कोयं सम्बन्धो नाम - किं सम्बन्धत्वजातियुक्तः सम्बन्धः, अनेकोपादानजनितो वा, अनेकाश्रितो वा सम्बन्धबुच्युत्पादको वा, सम्बन्धबुद्धिवि. २५ षयो वा ? न तावत्सम्बन्धत्वजातियुक्तः समवायस्यासम्वन्धत्वप्रसङ्गात् । द्रव्यादित्रयान्यतमरूपत्वाभावेनं समवायान्तरासने चात्र सम्बन्धत्वजातेरप्रवर्त्तनात् । अथ संयोगवदने कोपादानजनितः तर्हि घटादेरपि सम्बन्धत्वंप्रसङ्गः । नाप्यनेकाश्रितः; घट H १ विपक्षे । २ शब्दश्च ज्ञानं च शब्दज्ञाने, तस्य घटस्य शब्दज्ञाने तच्छब्दज्ञाने इति द्वन्द्वः । ३ वाच्यवाचकभावविषयविषयिभावसमूहे विपक्षे नास्ति तथापि तस्यैकदेशवृत्तित्वादनैकान्तिकः । ४ असाधारण स्वरूपम् । ५ समवायस्य । ६ समवायेन सह समानानां वस्तूनाम् । ७ तस्यैकत्वात्सामान्यस्यानेकवृत्तित्वात् । ८ अयं सम्बन्ध इति ज्ञाने । ९ समवायस्य । १० सम्बन्धत्वजातेर्वृत्यर्थं समवाये । ११ समवायान्तरासत्त्वं च समवायस्यैकत्वादवगन्तव्यम् । १२ अनेकोपादानजनितत्वाविशेषात् । J : U
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy