SearchBrowseAboutContactDonate
Page Preview
Page 771
Loading...
Download File
Download File
Page Text
________________ सू० ४.१०] समवायपदार्थविचारः अत्र प्रतिविधीयते । यत्तावदुक्तमयुतसिद्धेत्यादिः तत्रेदमयुतसिद्धत्वं शास्त्रीयम् , लौकिकं वा? तबाद्यः पक्षोऽयुक्तः, तन्तुरटादीनां शास्त्रीयायुतसिद्धत्वस्थासम्भवात् । वैशेषिकशास्त्रे हि प्रसिद्धम्-अपृथगाश्रयवृत्तित्वमयुतसिद्धत्वम् , तच्चेह नास्त्येव, 'तन्तूनां स्वावयवांशुपु वृत्तः पटस्य च तन्तुपु' इति पृथगाश्रय-५ वृत्तित्वसिद्धेर पृथगाश्रयवृत्तित्वमालदेव एवं गुणकर्मसामान्यानामप्यपृथगाश्रयवृत्तित्वाभादः प्रतिपत्तव्यः ? लोकालि किभाजनवृत्तिरूपं त्वयुतसिद्धत्वम् दुग्धामसोयुतसिद्धयोरन्यत्तीति । ननु यथा कुण्डद्ध्यवयवाख्यौ पृथग्भूतावाश्रयी तयोश्च कुण्डस्य दध्नश्च वृत्तिर्न तथात्रं चत्वारोः प्रतीयन्ते-'द्वावाश्रयो १० पृथग्भूतौ द्वौ चाश्रयिणौ, तन्तोरेव स्वावयवापेक्षयाश्रयित्वात् पटापेक्षया चाश्रयत्वात्रयाणामेवार्थानां प्रसिद्धः, 'पृथगाश्रयानयित्वं युतसिद्धिः' इत्यस्य युतसिद्धिलक्षणस्याभीवादयुतसिद्धत्वं तेषामिति चेत् कथमेवमाकौशादीनां युतसिद्धिः स्यात् ? तेषामन्याश्रयविवेकतः पृथगाश्रयाश्रयित्वाभावात् ! 'नित्यानां च पृथग्गतिमत्त्वम्' इत्यपि तत्रासम्भाव्यम् ; न खलु विभुद्रव्यपरमाणुवद्विभुद्रयाणामन्यतरपृथग्गतिमत्त्वं परमाणुद्धयवदुभयपृथग्गतिमत्त्वं वा सम्भवति, अविभुत्वप्रसङ्गात् । तथैकद्रव्याश्रयाणां गुणकर्मसामान्यानां परस्परं पृथगाश्रयवृत्तेरावादयुतसिद्धिप्रसङ्गतोऽन्योन्यं समवायः स्यात् । स च नेष्टस्तेषामा-२० श्रयाश्रयिसमवाय(यिभावा)भावात् । इतरेतराश्रयभावा( यश्चसमवाय) सिद्धौ हि पृथगाश्रयसमवायित्वलक्षणा युतसिद्धिः, तत्सिद्धौ च तनिषेधेन समवायसिद्धिरिति । ननु लक्षणं विद्यमानस्यार्थस्यान्यतो भेदेनावस्थापकं न तु सद्भावकारकम् , तेनायमदोषश्चेत् । ननु ज्ञापकपक्षे सुतरामितरे-२५ तराश्रयत्वम् । तथाहि-नाऽज्ञातया युतसिधा समवायो ज्ञातुं शक्यते, अनधिगतश्वासौ न युतसिद्धिमवस्थापयितुमुत्सहते इति । १ गुणादीनां गुणवदादिषु वृत्तिरेषां च स्वावयवेष्वाश्रयभूतेषु वृत्तिरिति भावः । २ अतिव्याप्तिदूषणमिदम् । ३ कुण्डं च दधि च तथोक्ते तयोरवयवौ । ४ अधिकरण. भूतयोः । ५ तन्तुपटादिषु । ६ ते के चत्वारो● इत्युक्ते सत्याह । ७ कुण्डध्यवयवौ। ८ आश्रयौ दधिकुण्डावयवलक्षणौ विद्यते ययोर्दधिकुण्डयोस्तावाश्रयिणौ। ९ समवाये। १० ततश्च । ११ ततश्च तेषां समवायसिद्धिरिति भावः । १२ आदिना आत्मकालदिशां च। १३ विवेकः अभावः, व्यापकत्वात्तेषामेकाश्रयवृत्तेः । १४ पृथगाश्रयाअयित्वं युतसिद्धिलक्षणं नित्येषु यद्यपि नास्ति तथापि पृथग्गतिमत्त्वं भविष्यतीत्याह । १५ लक्षणम् । १६ मध्ये । १७ एकद्रव्यं विभु आत्माकाशादि । १८ बसः।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy