________________
प्रमेयकमलमार्तण्डे ४. विषयपरि० दण्डाद्युल्लेखेन 'दण्डी' इत्यादिप्रत्ययानुत्पत्तेः । दण्डादेरभिधानयोजनामावधि 'अनेन वस्तुना तद्वानयम्' इत्यनुरागप्रतीतिः 'संसृष्टा एते तन्तुपटादयः' इति सम्वन्धमाञपि तुल्या। केवलं सङ्केताभावात् 'अयं समवायः' इति व्यपदेशाभावः। प्रतिपन्नस. ५ मयस्तु दण्डादेरिव समवायस्यापि विशेषणतामभिधानयोजनाद्वारेण प्रतिपद्यते।
यञ्चान्यत्समवाये बाधकमुच्यते-'नानिष्पन्नयोः समवायः सम्बन्धिनोरनुत्पादे सम्बन्धाभावात् । 'निष्पन्नयोश्च संयोग
एव । असम्वन्धे चास्य 'समवायिनोः समवायः' इति व्यपदेशा१० नुपपत्तिः । सम्बन्धे वा न खतोसौ; संयोगादीनामपि तथा
तत्प्रसङ्गात् । परतश्चेदनवस्था। न च गुणादीनामाधेयत्वं निष्क्रिय त्वात् । गतिप्रतिवन्धकश्चाधारो जलादेर्घटादिवत् । तथा न खरूपसंश्लेषः समवायो यतस्तस्मिन्सत्येकत्वमेव न सम्वन्धः। नापि पारतन्यम् । अनिष्पन्नयोराधारस्यैवासत्त्वात् । स्वतन्त्रेण १५ निष्पन्नयोश्च न पारतव्यम्' इत्यप्यसमीचीनम् । यतो न निष्पन्न
योरनिष्पन्नयोर्वा समवायः, खकारणसत्तासम्बन्धस्यैव निष्पत्तिरूपत्वात् । न हि निष्पत्तिरन्या समवायश्चान्यो येन पौर्वापर्यम् ।
एतेन 'रूपसंश्लेषः पारतन्यं वा' इत्याद्यपास्तम्। नापि समवायस्य सम्बन्धान्तरेण सम्बन्धो युक्तो येनानवस्था स्यात्, सम्ब२०न्धस्य समानलक्षणसम्बन्धेन सम्वन्धस्यान्यत्रादृष्टेः संयोगवत् ।
अंग्नेरुष्णतावत्तु स्वत एवास्य सम्बन्धो युक्तः स्वत एव सम्बन्ध रूपत्वात्, न संयोगादीनां तदभावात् । न ह्येकस्य स्वभावोऽन्यस्थापि, अन्यथा खतोग्नेरुष्णत्वदर्शनाजलादीनामपि तत्स्यात् ।
यञ्चोक्तम्-'निष्क्रियत्वात्तेषों नाधेयत्वम्' इति; तदप्यसत्; २५ संयोगिद्रव्यविलक्षणत्वाद्गुणादीनाम्, संयोगिनी सक्रियत्वेनेव तेषां निष्क्रियत्वेप्याधाराधेयभावस्य प्रत्यक्षेण प्रतीतेश्चेति ।
१ समवायस्याभिधानयोजनाभावेपि संसृष्टा एते तन्तुपटादय इति सम्बन्धमात्रेपि अनुरागप्रतीतिः । २ जैनादिना। ३ असौ समवायः सम्बन्धिनोरनिष्पन्नयोः स्यान्निष्पन्नयोति विकल्पद्वयं हृदि निधाय दूषयति । ४ किञ्चासौ समवायः समवायिभ्यामसम्बद्धः सम्बद्धो वेति विकल्पद्वयं विधाय प्रथमविकल्पे दूषणमाह । ५ सम्बद्धश्चेत्स्वतः परतो वेति विकल्पद्वयमत्रापि योज्यम्। ६ स्वरूपयोः स्वभावयोः संश्लेषः सम्बन्धः । ७ स्वकारणसत्तासम्बन्धस्यैव निष्पत्तिरूपत्वादित्यनेन ग्रन्थेन। ८ समवायिना सह । ९ अपरसमवायेन । १० संयोगिनोः संयोगस्य च समवायेन सम्बन्धसद्भावात् । २१ कथं तस्य सम्बन्ध इत्याशङ्कायामाह। १२ संयोगस्य। १३ गुणादीनाम् । १४ द्रव्याणाम् । १५ संयोगिनां सक्रियत्वादेव तेषामाधेयत्वमिति भावः।