SearchBrowseAboutContactDonate
Page Preview
Page 763
Loading...
Download File
Download File
Page Text
________________ सू० ४.१०] कर्मपदार्थविचारः न चैकरूपस्यार्थस्य क्रियासमावेशो युक्तः, सर्वदाऽविशिष्टत्वात् । यत्सर्वदाऽविशिष्टं न तस्य क्रियासम्भवो यथाकाशस्य, अविशिष्टं चैकरूपं वस्त्विति । न चैकरूपत्वेप्यर्थानां गन्तुस्वभावता युक्ता; निश्चलत्वाभावप्रसङ्गाद्, लदा गन्तृत्वैकरूपत्वात्। अथाऽगन्तृत्वरूपताप्येपामङ्गीक्रियते; तथा सत्याकाशवदगन्तृतैव ५ स्यात् । एवं चा गत्यवस्थायामप्यचलत्वलेषां प्रत्यकं तदपरित्यताऽगतिरूपत्वान्निश्चलावस्थावत् । न बोरसपत्लादेशामयमदोषः, गन्तृत्वागन्तृत्वविरुद्धधर्मायालेनैकत्वसाधतातुरङ्गादचलोऽनिलवत्। यथा चाक्षणिकैकरूपस्यार्थस्य क्रिया नोपपद्यते तथा क्षणिकैक-१० रूपस्यापि, उत्पत्तिप्रदेश एवास्य प्रध्वंसेन प्रदेशान्तरप्राप्त्यसम्भवात् । यो ह्युत्पत्तिप्रदेश एव ध्वंसमुपगच्छति न सोन्यदेशमाक्रामति यथा प्रदीपः, उत्पत्तिप्रदेश(शे)ध्वंसमुपगच्छति च क्षणिको भाव इति । न चार्थस्य क्षणिकत्वादेशाद्देशान्तरप्राप्तिर्धान्ता; क्षणिकवादस्य प्रतिषिद्धत्वात् । ततः परिणामिन्येवाथै यथोक्तं १५ कर्मोपपद्यते। न चेदमर्थादर्थान्तरम्; तथाभूतस्यास्योपलब्धिलक्षणप्राप्तस्यानुपलम्भेनासत्त्वात् । प्रयोगः-यदुपलब्धिलक्षणमा सन्नोपलभ्यते तन्नास्ति यथा क्वचित्प्रदेशे घटः, नोपलभ्यते च विशिष्टार्थखरूपव्यतिरेकेण कर्मेति । न चोपलब्धिलक्षणप्राप्तत्वमस्याऽ-२० सिद्धम् । “संख्या परिमाणानि पृथक्त्वं संयोगविभागौ परत्वापरत्वे कर्म च रूपिसमवायाच्चाक्षुषाणि" [वैशे० सू० ४३११११] इत्यभिधानात् । तन्न कर्मपदार्थोपि परेषां घटते । नापि सामान्यपदार्थः; तस्य पराभ्युपगतखमावस्य प्रागेव प्रतिषिद्धत्वादिति । विशेषपदार्थोप्यनुपपन्नः। विशेषी हि नित्यद्रव्यवृत्तयः परमा १ निरंशस्याऽविचलितस्य जीवादेः। २ सर्वदाऽविशिष्टश्च स्थानिक्रयासमवेतश्च स्यादिति सन्दिग्धानकान्तिकत्वे सत्याह। ३ गन्तृत्वमेवागन्तृत्वमेवेत्येकान्तप्रसङ्गलक्षणः। ४ पर्वतवायुवत् । ५ लब्धावसरो हि सौगतो ब्रूते-अर्थस्याक्षणिकैकरूपले क्रिया न घटते तर्हि क्षणिकैकरूपत्वे घटिष्यत इत्याशङ्कायामाह। ६ बौद्धमतापेक्षयोदाहरणम् । ७ सर्वथाऽक्षणिके क्षणिके वार्थेऽर्थक्रिया न घटते यतः। ८ कर्मरूपतया परिणतो विशिष्टः । ९ विशेषणमसिद्धमित्युक्ते सत्याह । १० सामान्यनिराकरणसमये। ११ नित्यद्रव्यवृत्तयोऽत्यन्तव्यावृत्तिहेतवो विशेषाः, विशेषा इति बहुवचनेनानन्य विवक्षितम् । १२ सामान्यरहितनित्यद्रव्यवृत्तयोऽन्या विशेषाः । प्र. क. मा० ५१
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy