SearchBrowseAboutContactDonate
Page Preview
Page 762
Loading...
Download File
Download File
Page Text
________________ अमेयकमलमार्तण्डे [४. विषयपरि० तिप्रसङ्गः । क्षमा चार्थस्य स्वयमेवाभावात्कस्यालो स्थापकः स्यात् ? आने वाऽस्थिर स्वभावताविरोधः । अथा द्वितीयः पक्षा, तदा स्थिरस्वभावेऽवस्थितानामर्थानां खयमेवावस्थानाकिमकिञ्चित्करस्थापकप्रकल्पनया? ततः स्वहेतुवशात्तथा तथा परिण५ तिरेवार्थानां स्थितस्थापकः संस्कारो नान्यः। धर्माधर्मशब्दानां तु गुणत्वं प्रागेव प्रतिविहित मित्यलमतिप्रसङ्गेन । ततः "कर्तुः फलदाय्यात्मगुण आत्ममनःसंयोगजः स्वकायविरोधी धर्माधर्मरूपतया मेद्वानदृष्टाख्यो गुणः" [ ] इत्ययुक्तमुक्तम् । इदं तु युक्तम् "कर्तुः प्रियहितमोक्षहेतुर्धर्मः, १० अधर्मस्त्वप्रियप्रत्ययहेतुः" [प्रश० मा० पृ० २७२-२८०] इति । तन्न गुणपदार्थोपि श्रेयान् । नापि कर्मपदार्थः । स हि पञ्चप्रकारः परैः प्रतिपाद्यते- "उत्क्षेपणमवक्षेपणमाकुञ्चनं प्रसारणं गमनमिति कर्माणि" [वैशे० सू० श११७] इत्यभिधानात्। तत्रोत्क्षेपणं यदूर्वाधःप्रदेशाभ्यां संयोग१५ विभागकारणं कर्मोत्पद्यते, यथा शरीरावयवे तत्सम्बद्ध वा मूर्तिमद्रव्ये ऊर्ध्वदिग्भाविमिराकाशदेशाद्यैः संयोगकारणमघोदिग्भागावच्छिन्नैश्च तैर्विभागकारणम् । तद्विपरीतसंयोगकारणं च कर्मावक्षेपणम् । ऋजुद्रव्यस्य कुटिलत्वकारणं च कर्माकुञ्चनम् , यथा ऋजुनोडल्यादिद्रव्यस्य येऽग्रावयवास्तेषामाकाशादिभिः स्वयंयो. २० गिभिर्विभागे सति मूलप्रदेशैश्च संयोगे सति येन कर्मणाङ्गुल्यादिरवयवी कुटिलः संपद्यते तदाकुञ्चनम् । तद्विपर्ययेण संयोगविभागोत्पत्तौ येनावयवी ऋजुः सम्पद्यते तत्कर्म प्रसारणम् । अनियंतदिग्देशैर्यत्संयोगविभागकारणं तद्गमनम् । उत्क्षेपणादिकं तु चतुःप्रकारमपि कर्म नियतदिग्देशसंयोगविभागकारणमिति । २५ तदेतत्पश्चप्रकारतोपवर्णनं कर्मपदार्थस्याविचारितरमणीयम्; देशाद्देशान्तरप्राप्तिहेतुः परिस्पन्दात्मको हि परिणामोऽर्थस्य कर्मोच्यते । उत्क्षेपणादीनां चात्रैवान्तर्भावः। अत्रान्तर्भूतानामपि कञ्चिद्विशेषमादाय मेदेनाभिधाने भ्रमणस्प(स्य)न्दनादीनामप्यतो भेदेनाभिधानानुषङ्गात्कथं पञ्चप्रकारतवास्य ? १ विद्युदादीनामपि स्थापकः स्यादित्यतिप्रसङ्गः। २ स्वकार्ये क्रियमाणे सति विरोधोऽभावो यस्य सः। ३ मुसलादिर्यथा। ४ प्रियः सुखदः। ५ हितः परिणामपथ्यः। ६ दुःखकारणम् । ७ ऊर्ध्वाधःप्रदेशाभ्यां विपरीतौ अधऊर्ध्वप्रदेशौ । - ऊर्ध्वाः। ९ ऊर्ध्वाधःप्रदेशयोः १० गमनस्य यथाऽनियतदिग्देशः संयोगविभागकारणत्वं तथोत्क्षेपणादेरनियतदिन्देशाभ्यां संयोगविभागकारणत्वं ततश्च कथमुत्क्षेपणादीनां भेद इत्युक्ते सत्याह । ११ पञ्चप्रकाराकर्मणः ।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy