________________
सू०४।१० गुणपदार्थविचारः
५९९ क्रियातोऽर्थान्तरं वेगः; अस्याः शीघ्रोत्पादमाने वेगव्यवहारप्र. सिद्धेः । वेगेन गच्छति' इति प्रतीतः क्रियातोर्थान्तरं वेगः; इत्यप्ययुक्तम् ; 'वेगेन गञ्छति, शीनं गच्छति' इत्यनयोरेकत्वात् । न च कर्मणः कौरम्मकत्वेऽनुपरमप्रसङ्गः; शब्दवत्तदुपरमोपपत्तेः। यथैव हि त्या शब्दान्तरारम्भकत्येप्युदरमस्तथात्रापि ।५ "कर्म कर्मसाध्य विद्यते" वैशे . १२.११] इत्यपि वचनसानत्वादविरोधकम् ।
न च विभिन्न संस्कारो काणादीनामपातहेतुः प्रतीयते, अन्यथा कदाचिदपि तेषां पातो न स्यात् , तत्प्रतिवन्धकस्य बेगल्स सर्वदावस्थानात् । न च मूर्तिमद्वाय्वादिसंयोगोपहतशक्तिवाद्धे-१० गस्य तेषां पतनम् ; प्रथममेव पातप्रसक्तेः, तत्संयोगस्य तद्विरोधिनस्तदापि सम्भवात् । न च प्राग्वेगस्य वलीयस्त्वाद्विरोधिनअपि मूर्त्तद्रव्यसंयोगमपास्य शरं देशान्तरं प्रापयति; इत्यभिधात. व्यम् । पश्चादप्यस्य बलीयस्त्वात्तथैव तत्प्रापकत्वप्रसक्तः। न खलु वेगस्य पश्चादन्यथात्वम्, तथोत्पत्तिकारणाभावात् , तत्स-१५ मवायिकारणत्वस्येवादेः सर्वदाऽविशिष्टत्वात् । न च कर्माख्यं कारणं पश्चाविशिष्यते; तस्यापि तुल्यपर्यनुयोगत्वात् । न च प्रभूताकाशप्रदेशसंयोगोत्पादनात् संस्कारप्रक्षयादियोः पातः; संस्कारस्यैकस्वभावत्वेनावस्थितल्य प्राणिव पश्चादि प्रक्षयानुपपत्तेः । न चाकाशस्य प्रदेशाः परेणेष्यन्ते, येन तत्संयोगानां २० भूयस्त्वं संस्कारप्रक्षयहेतुत्वं वा युक्तियुक्तं भवेत् । कल्पनाशिल्पिकल्पितानां संयोगभेदकत्वं तदायत्तभेदानां च संयोगानां संस्कारप्रक्षयहेतुत्वं दूरोत्सारितमेव ।
भावनाख्यस्तु संस्कारो धारणापरनामा नानिष्टः; पूर्वपूर्वानुभवाहितसामर्थ्यलक्षणस्यात्मनोऽनर्थान्तरभूतस्य स्मृत्यादिहेतुत्वे-२५ नास्यास्माभिरपीष्टत्वात्।
स्थितस्थापकरूपस्तु संस्कारोऽसम्भाव्य एव । स हि किं स्वयमस्थिरस्वभावं भावं स्थापयति, स्थिरस्वभावं वा? न तावद्स्थिरस्वभावम् । तत्स्वभावानतिक्रमात् । तथाविधस्यापि स्थापनेs.
१ शीघ्रत्वं च क्रियास्वरूपं परमते स्वमते च। २ वेगस्य क्रियात्वे क्रियातः क्रियोत्पद्यत इति भावः। ३ यद्यपि समवायिकारणमविशिष्टं तथापि कर्माख्यं कारणं विशिष्यत इत्युक्ते सत्याह। ४ न खलु कर्माख्यस्य पश्चादन्यथात्वं तथोत्पत्तिकारणाभावादित्यादिरूपेण । ५ नित्यत्वाद्गुणानाम् । ६ आकाशप्रदेशानाम् । ७ संयोगानां नानाकारत्वम् ।