SearchBrowseAboutContactDonate
Page Preview
Page 760
Loading...
Download File
Download File
Page Text
________________ ५९८ प्रमेयकमलमार्तण्डे [४. विषयपरि० 'स्नेहोऽम्भस्येव' इत्याप्ययुक्तम् । वृतादेरपि लोके वैद्यकादिशास्त्रे च स्निग्धत्वेन प्रसिद्धत्वात् । घृतादावन्यनिमित्तत्केनौपचारिकः स्निग्धप्रत्ययः, इत्यप्यसाम्प्रतम्, विपर्ययस्यामि कल्पायितुं शक्यत्वात् । तथाहि-तोयसम्पर्कप्योदनादौ च स्निग्धप्रत्ययो नास्ति ५घृतादिलस्पर्क तु स्निग्धप्रत्ययः सर्वेषामस्त्येवेति । कणिकादौ तोयस्य वन्धहेतुत्वोपलम्भात्तस्यैव स्नेहो विशेषगुणः; इत्यप्यसारम् ; भवता स्नेहरहितत्वेनाभ्युपगतस्यापि क्षीरजतुप्रभृतेर्वन्धहे. तुत्वेन प्रतीतेः। स्नेहस्य गुणत्वाभ्युपगमे च काठिन्यमार्दवादेरपि गुणत्वाभ्यु१०पगमः कर्तव्यः, तथा च तत्संख्याव्याघातः स्यात् । ननु काठि. न्यादेः संयोगविशेषरूपत्वात्कथं गुणसंख्याव्याघातहेतुत्वम् ? तथा चोक्तम्-"अवयवानां प्रशिथिलसंयोगो मृदुत्वम्" [ ] इत्यादिः तदप्यसङ्गतम् । चक्षुषा संयोगेषु प्रतीयमानेष्वपि मार्दवादेरप्रतिभासनात् । यो हि यद्विशेषः स तस्मिन्प्रतीयमाने १५प्रतीयत एव यथा रूपे प्रतीयमाने तद्विशेषो नीलादिः, न प्रती यते च संयोगेषु प्रतीयमानेष्वपि काठिन्यादिः, तस्मानासौ तद्विशेष इति । कटाद्यवयवानां प्रशिथिलसंयोगेपि मृदुत्वाप्रतीतेश्च, विशिष्टचर्माद्यवयवानामप्यप्रशिथिलसंयोगित्वेपि मृदुत्वोपलब्धेश्चेति २० ननु काठिन्यादेः संयोगविशेषरूपत्वाभावे कथं कठिनमेव कणिकादिगव्यं मर्दनादिना मृदुत्वमापाद्यते ? इत्यप्यसुन्दरम्, न हि तदेव द्रव्यं मृदु भवति । किं तर्हि ? पूर्वकठिनपर्याय निवृत्ती मृदुपर्यायोपेतं द्रव्यान्तरमुत्पद्यते । संयोगविशेषमृदुत्ववादिनापि पूर्वद्रव्यनिवृत्तिरत्राभ्युपगतैव । ततः स्पर्शविशेषो मृदुत्वादिर२५ भ्युपगन्तव्यः 'कठिनः स्पर्शी मृदुः स्पर्शः' इति प्रतीतिदर्श नात् । तथा च पाकजत्वमपि स्पर्शस्योपपन्नं घटादिषु रूपादिवत् विलक्षणस्पर्शीपलम्भा नान्यथा। न च काठिन्यादिव्यतिरेकेण स्पर्शस्यान्यद्वैलक्षण्यं व्यवस्थापयितुं शक्यमिति । वेगाख्यस्तु संस्कारो न केवलं पृथिव्यादावेवास्ति आत्मन्य३० प्यस्य सम्भवात्, तस्यापि सक्रियत्वेन प्रसाधितत्वात् । न च १ अन्यत्-जलम् । २ मृदुरूपोपि संयोगगुण विशेषः। ३ मृदुत्वादेः स्पर्शविशेषत्वे च । ४ मृदुत्वादेः स्पर्शविशेषस्याभावे स्पर्शस्य न पाकजत्वं विलक्षणस्पर्शाभावादिति भावः । ५ काठिन्यादेः स्पर्शविशेषत्वाभावेपि स्पर्शस्यान्यद्वैलक्षण्यं सम्भविष्यति ततश्च विलक्षणस्पर्शोपलम्भेन पाकजत्वमप्यविरुद्ध स्पर्शस्येत्याशङ्कायामाह । ६ आत्मनो निष्क्रियत्वात्कथं वेगाख्यस्य संस्कारस्य सम्भव इत्युक्ते सत्याह ।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy