SearchBrowseAboutContactDonate
Page Preview
Page 759
Loading...
Download File
Download File
Page Text
________________ सू० ४.१०] गुणपदार्थविचारः ५९७ सुक्तम्-'विप्रकृष्टसन्निकृष्टवुद्धिभ्यां परत्वापरत्वयोरुत्पत्तिः' इति । न हि घटबुद्धिमपेक्ष्य कुम्म उत्पद्यते इति युक्तम् । नापि पर्यायशब्दभेदादर्थो भिद्यते इति । किञ्च, सामान्येषु महापरिमाणाल्पपरिमाणगुणेषु च महदल्पाधारत्ववुद्ध्यापेक्षयोः परत्वापरत्वयोरुत्पत्तिः कल्प्यतामविशेषात् । ५ किच, परत्वापरत्वयोर्गुणत्वनभ्युपगच्छता मध्यत्वं च गुणोभ्युपगन्तव्यः कालदिकृतमध्याव्यवहारत्यायन समानत्वात् । सुखदुःखेडछादीनां चाबुद्धिरूपले रूपादेिवकाल्गुपता युक्ता, बुद्धिरूपत्वे चातो मेदेनाभिधानमयुक्तम् । कंचिद्विशेषनादाय वुद्ध्यात्मकानामप्यतो भेदेनाभिधाने अभिधाना(धादी)दीलामपि १० भेदेनाभिधानं कार्यम् । इत्यलमतिप्रसङ्गेन । गुरुत्वादीनां तु पुद्गलगुणत्वं युक्तमेव । 'अतीन्द्रियं गुरुत्वं पातोपलम्भेनानुमेयत्वात्' इत्येतन्न युक्तम् । करतलाद्युपरिस्थिते द्रव्यविशेष पातानुपलम्भेपि गुरुत्वस्य प्रतिभासनात् । रजःप्रभृतीनामपि गुरुत्वं कस्मान्न गृह्यते इति चेत् ? ग्रहणायोग्यत्वात् । १५ तावतैवातीन्द्रियत्वे गन्धरसादीनामप्यतीन्द्रियत्वं स्यात्। क्वचिद्दरे तदाश्रयस्यानफलादेः प्रत्यक्षत्वेपि तेषां ग्रहणाभावादिति ।। पृथिव्यनलयोरप्यस्ति द्रवत्वम् । इत्यनुपपन्नन् । सुवर्णादीनाम् "अग्नेरपत्यं प्रथमं सुवर्णम्" इत्यागमतः प्रसिद्धतैजसत्वानां जतुप्रभृतिपार्थिवद्रव्याणां चाप्यस्यैव द्रवत्वस्य संयु-२० क्तसमवायवशात्प्रतीतिसम्भवात् । अथ 'सर्व पार्थिवं तैजसं च द्रव्यं द्रवत्वसंयुक्तं रूपित्वात्तोयवत्' इत्यनुमानात्तस्य द्रवत्वसिद्धिः, तन्न प्रत्यक्षेण स्प (स्य) न्दनकर्मानुपालसेन च बाधितविषयत्वात् । अथेत्थन्धर्मकं तत्र द्रवत्वं जातं यत्प्रत्यक्षं न भवति स्प (स्य) न्दनक्रियां च न २५ करोतीत्युच्यते; तर्हि गुरुत्वरसावप्येवंधर्मको रूपित्वादेव किन्न तेजसोभ्युपगम्येते तुल्याक्षेपसमाधानत्वात् ? तथा चाऽस्यो - गतिखभावता न स्यात्, 'रसः पृथिव्युदकवृत्तिः' इत्यस्य च विरोध इति। १ परापररूपेषु इत्यर्थः। २ उभयत्र अपेक्षाबुद्धेः । ३ आदिना मस्तकस्कन्धादिग्रहणम् । ४ आदिपदेन इरितालरीतिकाग्रहणम् । ५ जलीयस्य । ६ प्रत्यक्षौ न भवतः पतनादिक्रियां च न कुरुत इति । ७ प्रत्यक्षेण पतनादिकर्मानुपलम्भेन च बाधितविषयत्वात् तेजसो गुरुत्वं रसत्वमित्याक्षेपः, अथेत्थकर्मकं तेजसि गुरुत्वं रसत्वं च जातं यत्प्रत्यक्षं न भवति तत्पतनादि क्रियां च न करोतीति समाधानम् । ८ तेजोद्रव्यस्य गुरुत्वरसत्वोपगमे च। ९ तेजस्यपि रसस्य भावात् ।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy