SearchBrowseAboutContactDonate
Page Preview
Page 758
Loading...
Download File
Download File
Page Text
________________ प्रमेयकमलमार्तण्डे [४. विषयपरि० यच्चोच्यते तत्प्रसिद्धयेऽनुमानम्-विवक्षितावयवक्रियाऽऽकाशादिदेशेभ्यो विभाग न करोति, व्यारम्भसंयोगविरो. धिविभागोत्पादकत्वात् , या पुनराकाशादिदेशविभागकी सा संयोगविशेषनिवर्त्तकविभागजनिकापि न भवति यथाजलि५क्रियेति । यदि भिद्यमानवंशाद्यवयविद्रव्यस्यावयवक्रिया आकाशादिदेशेभ्यो विभागं कुर्यात् तर्हि वंशादिद्रव्यारम्भकसंयोगविरोधिविभागोत्पादकमेवास्या न स्यादगुल्याद्यवयविद्रव्यकियावत् । ततोऽवयविद्रव्यस्याकाशादिदेशविभागोत्पादकोऽ. विभागोऽभ्युपगन्तव्यः, इत्यप्यसाम्प्रतम्, वश्यं विभागोत्पा१० दकत्वस्यासिद्धत्वात् । क्रियात एव संयोग निवृत्तरुक्तत्वात् । अथ 'अवयविनस्तक्रियाऽऽकाशादिदेशसंयोग न निवर्त्तयति द्रव्यारम्सकसंयोगनिवर्त्तकत्वात्' इतीमत्र विवक्षितम् ; तथाप्यसाधारणो हेतुः; सपक्षेप्याकाशादिदेशसंयोगानिवर्त्तके रूपादौ वृत्तेरभावात् । न चावयवसंयोगादवयविनः संयोगोन्यः; तद्भेदै१५ कान्तस्य प्रागेव प्रतिक्षेपात्, विनाशोत्पादप्रक्रियायाश्च कृतो. 'त्तरत्वात् । तन्न विभागो घटते।। नापि परत्वापरत्वे; परापरप्रत्ययाभिधानयोस्तदन्तरेणापि रूपादौ सम्भवात् । तथाहि-क्रमोत्पन्ननीलादिगुणेषु 'परं नीलमपरं च' इति प्रत्ययोत्पत्तिः असत्यपि परत्वापरत्वलक्षणे गुणे दृष्टा २०गुणानां निर्गुणतयोपगमात्, तथा घटादिष्वपि स्यात् । अथात्र दिकालकृतः परापरप्रत्ययः, ननु घटादिष्वप्यसौ तत्कृतोस्तु विशेषाभावात् । तथा च प्रयोगः-योयं परापरादिप्रत्ययः स परपरिकल्पितगुणरहितार्थमात्रकृतक्रमोत्पाव्यवस्थानिबन्धनः, परा परप्रत्ययत्वात् , रूपाँदिषु परापरप्रत्ययवत् । 'विप्रकृष्टं परं संनि२५कृष्टमपरम्' इति चानयोरेकार्थत्वान्न मेदं पश्यामः । ततश्चायुक्त १ भिधमानवंशाद्यवयविद्रव्यस्य। २ भिद्यमानवंशाधवयविन इति शेषः । ३ द्रव्यं वंशादि । ४ परमाणु। ५ प्रसारणसङ्कोचनरूपा। ६ द्रव्यारम्भकसंयोगविरोधिवि. भागोत्पादकत्वं च स्यादाकाशादिदेशेभ्यो विभागं च कुर्यादिति सन्दिग्धानैकान्तिकत्वे सत्याह। ७ विभागाद्विभागो जात इत्यर्थः । ८ जैनादिना । ९ तर्हि विभागाभावे संयोगनिवृत्तिः कथमिति शङ्कायामाह । १० अनैकान्तिकः । ११ तयोः अवयवावयविनोः । १२ अवयवेषु क्रिया क्रियातः संयोगः संयोगादवयविन उत्पत्तिरिति प्रक्रियातस्तयोर्भेद इत्युक्ते सत्याह । १३ द्रव्यारम्भकसंयोगविरोधिविभागोत्पादकत्वसाधनमसिद्धं यतः । १४ न तु स्वाभाविकः । १५ गुणौ परत्वापरत्वलक्षणौ । १६ अर्थो दिक्काललक्षणः । १७ गुणरूपेषु। १८ परविप्रकृष्टयोरपरसन्निकृष्टयोश्च ।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy