SearchBrowseAboutContactDonate
Page Preview
Page 755
Loading...
Download File
Download File
Page Text
________________ सू० ४।१० गुणपदार्थविचारः स्तत्प्रत्ययगोचरास्तथा घटायोपायलमर्थान्तरभूतपरिमापरिकल्पनया। यदप्युक्तम्-‘वदामलकादिपु भात्तोऽणुव्यवहारः' इत्यादि तदप्युक्तिमात्रम् ; मुख्यगौणप्रविभागस्यानावनाणत्वात् । न खलु यथा सिंहमाणवकादिषु मुख्यगौणविवेकप्रतिपत्तिः सर्वपामविगाने नास्ति तथा 'यणु के एकात्वहस्वर में मुख्येऽन्यत्र भाक्ते' इति कस्यचित्प्रतिपत्तिः । प्रक्रियालानरच लवेशालेषु सुलभत्वानातो विवादविवृत्तिः। आपेक्षिकत्वाच्च परिमाणस्यागुणत्वम् । न हि रूपादेः सुखादेर्दा गुणस्यापेक्षिकी सिद्धिः । योपि नीलनीलतरादेः सुखसुखतरादे.१० ऽऽपेक्षिको व्यवहारः सोऽपि तत्प्रकर्षापकर्षनिवन्धनो न पुनर्गुणस्वरूपनिवन्धनः। ततो हवदीर्घत्वादेः संस्थानविशेषाद्व्यतिरेकाभावात्कथं गुणरूपता? तद्विशेपस्यापि कथञ्चिद्भेदाभिधाने व्यस्त्रचतुरस्रादेरपि भेदेनाभिधानानुपङ्गात्कथं तंञ्चतुर्विधत्वोपवर्णनं संशोभतेति ? यञ्चोक्तम्-पृथक्त्वं घटादिभ्योर्थान्तरं तत्प्रत्ययविलक्षणहीन. माहत्वात्सुखादिवत् तदप्युक्तिमात्रम्; हेतोर सिद्धत्वात् । न खलु खहेतोरुत्पन्नाऽन्योन्यव्यावृत्तार्थव्यतिरेकेणार्थान्तरसूतस्य पृथक्त्वस्याध्यक्षे प्रतिभासोस्ति, अंत एवोपलब्धिलक्षणप्राप्तस्यास्यानुपलम्भादसत्त्वम्। __ रूपादिगुणेषु च 'पृथक्' इतिप्रत्ययप्रतीतेरनेकान्तः। न हि तत्र पृथक्त्वमस्ति गुणेषु गुणासम्भवात् । न च गुणेषु "पृथक्' इति प्रत्ययो भक्तः, मुख्यप्रत्ययाविशिष्टत्वात् । न च स्वरूपेणा (ण) व्यावृत्तानोमर्थानां पृथक्त्वादिवेशात्पृथग्रूपता घटते; भिन्नाभिन्नपृथग्रूपताकरणेऽकिञ्चित्करत्वात् । भेदप-२५ क्षे हि सम्वन्धासिद्धिः। अभेदपक्षे तु पृथग्रूपस्यार्थस्यैवोत्पत्तेरान्तरभूतपृथक्त्वगुणकल्पनावैयर्थ्यम् । प्रयोगः-ये परस्परव्या १ परिमाणे । २ अविप्रतिपत्त्या। ३ द्वयणुके एवाणुत्वहस्खत्वे मुख्येऽन्यत्रान्यथेति प्रक्रियातो मुख्यगौणविवेकप्रतिपत्तिर्भविष्यतीत्युक्ते सत्याह। ४ अपेक्षाजनितत्वात् । ५ आशङ्कनीया। ६ आपेक्षिकत्वात्परिमाणस्य गुणत्वं नास्ति यतः । ७ परिमाणस्य । ८ व्यतिरेको भेदः । ९ तस्य परिमाणस्य । १० पृथक्त्वमिति । ११ घटात्पटो व्यावृत्त इति। १२ तव्य तिरेकेणार्थान्तरभूतस्य पृथक्त्वस्याध्यक्षे प्रतिभासो नास्ति यतः । १३ गगनकमलवत् । १४ घटपटादीनाम् । १५ आदिशब्देन विभागपरिग्रहः । १६ कथम् ? तथा हि ।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy