________________
प्रमेयकमलमार्त्तण्डे [ ४. विषयपरि०
यदप्युक्तम्- महदादिपरिमाणं रूपादिभ्योर्थान्तरं वत्प्रत्ययविलक्षणबुद्धिप्राह्यत्वात्सुखादिवत् तद्व्ययुक्तम्; हेतोरसिद्धेः, घटाद्यर्थव्यतिरेकेण महदादिपरिमाणस्याध्यक्षप्रत्ययग्राह्यत्वेनासं वेदनात् ।
५९२
५ असत्यपि महदादौ प्रासादमालादिषु महदादिप्रत्ययप्रादुर्भा प्रतीतेरनैकान्तिकञ्चायम् । न च यत्रैव प्रासादादौ समवेतो मालाख्यो गुणस्तत्रैव महत्त्वादिकमपि इत्येकार्थसमवायवशात् 'महती प्रासादमाला' इतिप्रत्ययोत्पत्तेर्नानैकान्तिकत्वम् ; स्वैसम - यविरोधत् । न खलु प्रासादो भवद्भिरवयविद्रव्यमभ्युपगम्यते १० विजातीयानां द्रव्यानारम्भकत्वात् । किं तर्हि ? संयोगात्मको गुणः । न च गुणः परिमाणवान्, "निर्गुणा गुणा:" [ इत्यभिधानात् । ततो मालाख्यस्य गुणस्य प्रासादादिष्वभावात् 'प्रासादमाला' इत्ययमेव प्रत्ययस्तावद्युक्तः, दूरत एव सा 'महती ह्रस्वा वा' इति प्रत्ययः, मालायाः संख्यात्वेन प्रासादानां १५ संयोगत्वेन महदादेश्च परिमाणत्वेन परैरभ्युपगमात् ।
1
अथ माला द्रव्यस्वभावेष्यते, तथापि द्रव्यस्य द्रव्याश्रयत्वा • नास्याः संयोगस्वरूपप्रासादाश्रयत्वं युक्तम् । अथासौ जातिख• भावेष्यते; तर्हि प्रत्याश्रयं जातेः समवेतत्वादेकस्मिन्नपि प्रासादे 'माला' इति प्रत्ययोत्पत्तिः स्यात् । 'एका प्रासादमाला महती २० दीर्घा हवा वा' इत्यादिप्रत्ययानुपपत्तिञ्च तदवस्थैव मालायां
तदाश्रये च प्रासादादावेकत्वादेर्गुणस्याऽसम्भवात् । बह्वीषु च प्रासादमालसु 'माला माला' इत्यनुगतप्रत्ययोत्पत्तिर्न स्यात्, जातावऽपरापरजातेनुपपत्तेः । न चौपचारिकोयं प्रत्ययोऽस्वलट्टत्तित्वात् । न हि मुख्यप्रत्ययाविशिष्टस्यौपचारिकत्वं युक्तमति २५ प्रसङ्गीत् । अत एव मालादिषु महत्त्वादिप्रत्ययोपि नौपचारिकः । ततो यथा स्वकारणकलापात्प्रासादादयो महदादिरूपतयोत्पन्ना
१ गुणरूपे । २ आदिना पर्वतमालादिषु । ३ अन्यथा । ४ गुणे गुणसद्भावाभ्युपगमात् । ५ वैशेषिकैः। ६ काष्ठादीनाम् ७ प्रासादलक्षणावयविद्रव्यम् । तस्य । ८ तन्त्वादिना सजातीया ये तन्त्वादयस्त एव पटाद्यवयविद्रव्यारम्भका इति भावः । ९ बहुत्वलक्षणेन । १० काष्ठादिभिः । ११ वैशेषिकैः । १२ बसः । १३ एकस्मिन्नपि प्रासादे मालायाः सद्भावात् । १४ महत्त्वगुणयुक्ता । १५ द्वित्वबहुत्वादेः । १६ जातिरूपासु । १७ निस्सामान्यानि सामान्यानीति वचनात् । १८ मुख्यश्चासौ प्रत्ययश्च खण्डमुण्डादिषु गौगौरित्यादिरूपस्तेनाविशिष्टोऽनुगतत्वेन समानस्तस्य । १९ मुख्यस्याप्यौपचारिकत्वप्रसङ्गात् ।