SearchBrowseAboutContactDonate
Page Preview
Page 756
Loading...
Download File
Download File
Page Text
________________ ५९४ प्रमेयकमलमार्तण्डे ४. विषयपरि० त्तात्मानस्ते स्वव्यतिरिक्तपृथक्त्वानाधाराः यथा रूपादयः, पररूपरव्यावृत्तात्मानश्च घटायोर्था इति । ततो विभिन्नखभावतयोत्पन्नार्थस्यैव 'पृथक् इतिप्रत्ययविषयत्वप्रसिद्धरलं पृथक्त्वगुणकल्पनया। पृथक्प्रत्ययस्याप्यसाधारण५धर्मादेवोपपत्तेः, यदा ह्येकं वस्त्वितरेभ्यो भिन्नं पश्यति प्रतिपत्ता तदा एकं पृथक' इति प्रतिपद्यते । यदा तु द्वे वस्तुनीतरेभ्यो विलक्षणैकधर्मयोगाद्विभिन्ने पश्यति तदा 'द्वे पृथक्' इति मन्यते । यदा त्वेकदेशत्वादिना धर्मणेतरेभ्यो बहूनि भिन्नानि पश्यति तदा 'एतान्येतेभ्यः पृथक् इति प्रतिपद्यते, यथा रूपाद्यो द्रव्या१०त्पृथगिति। __ संयोगस्तु समवायनिराकरणप्रघट्टके प्रतिषेत्स्यते । तद्भावात् 'प्रातिपूर्विका अप्राप्तिर्विभागः' इत्यपि निरस्तम् । न हि प्राग्भावि. सान्तररूपतापरित्यागेन निरन्तररूपतयोत्पन्नवस्तुव्यतिरेकेणान्यः संयोगः संयुक्तप्रत्ययविषयोनुभूयते । अविच्छिन्नोत्पत्ति १५कमेव हि वस्तु निरन्तरप्रत्ययविषयः निरन्तरोपरचितदेवदत्त यज्ञदत्तगृहवत् । न खलु गृहयोः परेणापि संयोगगुणाश्रयत्व. मिष्टम् , निर्गुणत्वाहुणानाम् , तयोश्च संयोगात्मकत्वेन गुणत्वात् । नापि विच्छिन्नोत्पन्नवस्तुव्यतिरेकेणान्यो विभागो विभक्तप्रत्ययविषयो हिमवद्विन्ध्यवत् । न हि तयोविभागाश्रयत्वं प्राप्तिपूर्वि२० काया अप्राप्तर्विभागलक्षणायास्तयोरभावात् । प्रयोगः-या संयुक्ताकारा बुद्धिः सा भवत्परिकल्पितसंयोगानास्पद्वस्तुविशेषमात्रप्रभवा यथा 'संयुक्तौ प्रासादौ' इति बुद्धिः, संयुक्ताकारा च 'चैत्रः कुण्डली' इत्यादिवुद्धिरिति । यद्वा, याऽनेकवस्तुसन्निपाते सति संमुत्पद्यते सा भवत्परिक२५ल्पितसंयोगविकलानेकवस्तुविशेषमात्रभाविनी यथाऽविरलाऽव. स्थिताऽनेकतन्तुविषया बुद्धिः, तथा च विमत्यधिकरणभावापन्ना संयुक्तवुद्धिरिति। तथा मेषादिषु विभक्तबुद्धिर्विभागरहितपदार्थमात्रनिवन्धना १ खव्यतिरिक्तपृथक्त्वानाधारा घटादयो यतः । २ वस्तुव्यतिरिक्तपृथक्त्वासम्भवात्कथं पृथक्त्वप्रत्ययोत्पत्तिरित्युक्त सत्याह । ३ असाधारण: तन्मात्रवृत्तिः। ४ आदिना कालत्वस्वरूपत्वग्रहः । ५ भिन्नरूपतेत्यर्थः। ६ अभिन्नरूपतयेत्यर्थः । ७ अपृथक् । ८ न केवलमस्माभिः । ९ गृहस्य गुणत्वमसिद्धमित्याह । १० इन्द्रियाणामनेकवस्तुमिः सह सन्निपाते सन्निकर्षः समुत्पद्यते इत्यर्थः । ११ अयमस्मान्मेषाद्भिन्नो मेष इत्यादिप्रकारेण।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy