________________
८० ४.१० गुणपदार्थविचारः
५८९ तदेतत्स्वगृहमान्यं परेपाम् : रूपादिगुणानां यथोपवर्णितस्वरूयेणावस्थानासम्भवात् । न खलु रूपं पृथिव्युदकज्वलनवृत्त्येव, वायोरपि तद्वत्तासम्भवात् । तथाहि-रूपादिमानवायुः पौगलिकत्वात् स्पर्शवत्त्वाद्वा पृथिव्यादिवत् । एवं जलानलयोरपि गन्धरसादिमत्ता प्रतिपत्तव्या! रूपरसगन्धस्पर्शमन्तो हि पुद्गलास्तत्कथं ५ तदिकारण प्रतिनियमः १ रुपाद्यविर्भावतिरोभावमात्रं तु तत्राविरुद्धम्, जलकनकादितंप्रयुक्तानले जसरसोगार्शयोस्तिरोभावाविर्भाववत् ।
संख्यापि संख्येयार्थव्यतिरेकेणोपलब्धिलक्षणप्राप्ता नोपलभ्यते इत्यसती खरविषाणवत् । न च विशेषणमसिद्धम् । तस्या १० दृश्यत्वेनेप्टेः । तथा च सूत्रम्-"संख्या परिमाणानि पृथक्त्वं संयोगविभागौ परत्वापरत्वे कर्म च रूपिसमवायाच्चाक्षुषाणि" [ वैशे० सू० ४।२११] इति ।
'एकादिप्रत्यया विशेष[णग्रहणापेक्षा विशिष्टप्रत्ययत्वाइण्डी-१० त्यादिप्रत्ययवत्' इत्यनुमानतोपि न संख्यासिद्धिः, यतो यथा 'एको गुणोपि(गः) बहवो गुणाः' इत्यादौ संख्यामन्तरेणाप्येकादिवुद्धिस्तथा घटादिष्वयंसहायादिखभालेष्वेकादिबुद्धिर्भविष्यती त्यलमर्थान्तरभूतयैकादिसंख्यया । न च गुणेषु संख्या सम्भवति; अद्रव्यत्वात्तेषां तस्याश्च गुणत्वेन द्रव्याश्रितत्वात् । न च २० गुणेषूपचरितमेकत्वादिज्ञानम् , अस्खलवृत्तित्वात् । यदि चाश्रयगता संख्यैकार्थसमवायाहुणेषूपचर्येत; तर्हि 'एकस्मिन्द्रव्ये रूपा
यो वहवो गुणाः' इति प्रत्ययोत्पत्तिर्न स्यात् , तदाश्रयद्रव्ये वहुत्वसंख्याया अभावात् । 'बट पदार्थाः' इत्यादिव्यपदेशे च किं निमित्तमित्यभिधातव्यम् ? न ह्यत्रैकार्थसमवायिनी संख्या २० सम्भवति; तया सह षट्पदार्थानां क्वचित्समवायाभावात् । अस्तु वा संख्या, तथाप्यस्याः कथं गुणत्वसिद्धिः सत्त्वादिवत् षट्वपि पदार्थेषु प्रवृत्तेः?
१ पृथिव्यादीनाम् । २ पृथिव्यामेव गन्ध इत्यादिः । ३ तर्हि सर्वत्र तेषामाविर्भावः कुतो न स्यादित्युक्ते सत्याह । ४ उष्ण। ५ अग्नेरपत्यं प्रथमं सुगर्णमित्यागमतः प्रसिद्धतेजसत्वं कनकादीनां ततः कथमुक्तं कनकादिसंयुक्तानल इत्यारेकायामाह कनकेपि पृथिव्यंशोस्तीति । ६ परस्य । ७ अत्र दण्डपुरुषयोः संयोगो विशेषः । ८ निर्गुणा [गुणा] इति वचनात्। ९ संख्यारहितेष्वित्यर्थः। १० अबाधित। ११ आश्रयगतद्रव्यस्यैकत्वात् । १२ केवलद्रव्यसमवेता। १३ द्रव्यलक्षणेऽर्थे ।
प्र. क. मा० ५.