________________
प्रमेयकमलमार्त्तण्डे
२५८८
[ ४. विषयपरि०
च परिमाणं रूपादिभ्योऽर्थान्तरं तत्प्रत्ययविलक्षणबुद्धिग्राह्यत्वा • त्सुखादिवत् ।
संयुक्तमपि द्रव्यं यद्वशात् 'अत्रेदं पृथक्' इत्यपोड्रियते तदपोद्धारव्यवहारकारणं पृथक्त्वं घटादिभ्योऽर्थान्तरं तत्प्रत्ययविल५ क्षणज्ञानग्राह्यत्वात्सुखादिवत् ।
अप्राप्तिपूर्विका प्राप्तिः संयोगः । प्रातिपूर्विका चाप्राप्तिर्विभागः । तौ च द्रव्येषु यथाक्रमं संयुक्तविभक्तप्रत्यय हेतू ।
'इदं परमिदमपरम्' इति यतोऽभिधानप्रत्ययौ भवतस्तद्यथाक्रमं परत्वमपरत्वं च । वुद्ध्यादयः प्रयत्नान्ताश्च गुणाः सुप्रसिद्धा एव । १० गुरुत्वं च पृथिव्युदकवृत्ति पतनक्रियानिबन्धनम् । द्रवत्वं तु पृथिव्युदकज्वलनवृत्तिः स्प (स्य) न्दनं हेतुः । पृथिव्यनलयोनैमित्ति कैम् । अपां सांसिद्धिकैम् । स्नेहस्त्वऽम्भस्येव स्निग्धप्रत्ययहेतुः ।
१५
संस्कारस्तु त्रिविधो वेगो भावना स्थितस्थापकश्चेति । तत्र वेगाख्यः पृथिव्यप्तेजोवायुमनस्तु मूर्त्तद्रव्येषु प्रयत्नाभिघातविशे१५ षापेक्षात्कर्मणः समुत्पद्यते । नियतदिक्रियाप्रतिब (प्रब) न्धहेतुः स्पर्शवद्रव्यसंयोगविरोधी च । भावनाख्यः पुनरात्मगुणो ज्ञानजो ज्ञानहेतुश्च दृष्टानुभूतश्रुतेष्वप्यर्थेषु स्मृतिप्रत्यभिज्ञाकार्योन्नीयमानसद्भावः । मूर्त्तिमद्रव्यगुणः स्थितस्थापकः, घनावयवसन्निवेशविशिष्टं स्वमाश्रयं कालान्तरस्थायिनमन्यथाव्यवस्थितमपि प्रय२० ततः पूर्ववद्यथावस्थितं स्थापयतीति कृत्वा, दृश्यते च तालपत्रादेः प्रभूततरकालसंवेष्टितस्य प्रसार्यमुक्तस्य पुनस्तथैवावस्थानं संस्कारवशात् । एवं धनुःशाखाश्टङ्गदन्तादिषु भग्नपवर्तितेषु वस्त्रादौ चास्य कार्य परिस्फुटमुपलभ्यत एव । धर्मादयस्तु सुप्र सिद्धा एवेति ।
१ विभागात्पृथक्त्वस्य भेदाभावात्पृथक्त्वप्रतिपादनं किमर्थमित्युक्ते सत्याह । २ पृथक् क्रियते । ३ अस्तु विभागात्पृथक्त्वस्य भेदस्तथापि घटादिभ्योऽभेदो भविष्यतीत्युक्ते वक्ति । ४ अनित्यावेव । ५ अनित्यमेव । ६ अनित्यमेव । ७ अनित्या एव । ८ तच्च पार्थिवाप्याणुषु नित्यं दणुकादिष्वनित्यम् । ९ लाक्षालोहादिषु । १० सर्पिः सुवर्णयोः । ११ अनित्यमित्यर्थः। १२ नित्यमित्यर्थः । आप्याणुपु नित्यमाप्यद्वयणुकादिषु त्वनित्यम् । १३ असर्वगतद्रव्य परिमाणवत्स्वित्यर्थः । १४ कर्मधारयः । १५ वृक्षादिकेन स्पर्शवता द्रव्येण सह वेगाख्यस्य बाणादेः संयोगे सति वेगाख्यः संस्कारः स्वयं विनश्यतीत्यर्थः । १६ आकृष्टमुक्तेषु । १७ स त्रिविधोप्ययं संस्कारो अनित्य एव, धर्माधर्मावात्मविशेषगुणावनित्या वेव, शब्दस्त्वाकाशविशेषगुणोऽनित्य एव । '