SearchBrowseAboutContactDonate
Page Preview
Page 752
Loading...
Download File
Download File
Page Text
________________ ५९० प्रमेयकमलमार्तण्डे [४. विषयपरि० ननु यदि संख्या गुणो न स्यात्तनित्यत्वमसमवायिकारणत्वं चास्या न स्यात् । अस्ति च तदुभयम् । तथा चोक्तम्-“एकादिव्या वहारहेतुः संख्याः । सा पुनरेकद्रव्या चानेकद्रव्या च । तत्रैकदव्यायाः सलिलादिपरमाणुरूपादीनामिव नित्यानित्यत्वनिष्पत्तयः। ५ सलिलादयश्चादिपरमाणवश्चेति विग्रहः । अनेकद्रव्या तु द्वित्वादिका परार्धान्ता। तस्याः खल्वेकत्वेभ्योऽनेकविषयबुद्धिसहितेभ्यो निष्पत्तिः, अपेक्षावुद्धिनाशाच्च विनाशः क्वचिदाश्रयविनाशार्दुभयविनाशाच्चेति चार्थः । असमवायिकारणत्वं च द्वित्ववहुत्वसं. ख्यायाः व्यणुकादिपरिमाणं प्रति" [प्रश० भा० पृ० १११-११३] १० इति; एतदपि मनोरथमात्रम्, भेद्वख्याः कारणत्वाभावात् । यथैव हि कार्यभिन्नतायां कारणभिन्नताया असमवायिकारणत्वं अवता नेष्यते तथैकत्वस्यापि तन्नेष्टव्यं तस्याऽभेदपर्यायत्वात् । अभेदभेदौ च स्वात्मपरात्मापेक्षौ रुपादिष्वपि भवतः । यथा चैकमभिन्नमिति पर्यायस्तथालेकं भिन्नमित्यपि । तथा च द्वित्वा. १५दिरप्यनेकत्वपर्यायः, तस्योत्पत्त्यादिकल्पना न कार्या। नन्वेव सर्वत्र 'द्वे त्रीणि' इत्यादिप्रतिभासप्रसङ्गात् प्रतिभासप्रवि. १ उत्तरसंख्योत्पत्तौ प्राक्तनसंख्याऽसमवायिकारणं, द्रव्यं समवायिकारणमपेक्षावु. द्धिनिमित्तकारणमिति । २ आदिशब्दोत्र लुप्तो द्रष्टव्यः। ३ सलिलादि( कार्यलक्षण) रूपादीनामनित्यत्वनिष्पत्तिर्यथा तथाऽनित्यैकद्रव्यगताया एकसंख्याया नित्यत्वनिपत्तिः, यथा च जलादिपरमाणुरूपादीनां ( कारणरूपाणाम् ) तथा नित्यैकद्रव्यगताया एकसंख्याया नित्यत्वमिति भावः। ४ कार्यरूपाः। ५ कारणरूपपरमाणवः। ६ द्वित्वादिसंख्यां प्रत्यपेक्षाबुद्धेः कारणत्वमेकत्वसंख्यायास्त्वसमवायिकारणत्वमिति भावः। ७ इमौ द्वावनी बहवः। ८ संख्येय आश्रयः । ९ संख्येयस्य च । १० संख्याम् । ११ उत्तरगुणं प्रति प्राक्तनगुणस्यासमवायिकारणत्वाभ्युपगमात् । १२ द्वित्वादिसंख्या प्रति । १३ द्वित्वादिसंख्यां प्रति । १४ अभेदपर्यायत्वेप्यसमवायिकारणत्वं कुतो न भवतीत्युक्ते सत्याह । १५ एकनानात्वम् । १६ रूपस्य स्वरूपापेक्षयाऽभेदः, परापेक्षया भेदः, एवं रसादिपु वाच्यम् । १७ अभेदोऽसमवायिकारणं न भवति द्रव्यादन्यत्र वृत्तिमत्त्वा दवत्सत्त्वादिवद्वेति । १८ अपिशब्देन द्रव्यं ग्राह्यं तत्रापि स्वपररूपापेक्षयाऽभेदभेदौ। १९ आदिशब्देन नाशस्थितिसंग्रहः। २० द्वित्वादेरनेकपर्यायत्वे वस्तुस्वरूपमेवायातम् , तस्य च खकारणकलापादुत्पत्तेरनेकविषयबुद्धिसहितेभ्यो निष्पत्तिरित्यादि निरर्थकमिति भावः । २१ द्वित्वादेरनेकत्वपर्यायत्वप्रकारेण । २२ त्रिचतुःपञ्चषडादिवस्तुषु । २३ द्वित्वादेरनेकपर्यायत्वात्।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy