SearchBrowseAboutContactDonate
Page Preview
Page 743
Loading...
Download File
Download File
Page Text
________________ सू० ४११०] आत्मद्रव्यवादः ५८१ आत्मनस्तु स्यात् यद्येकदेहपरित्यागेन देहान्तरमसौ व्रजेत् , तथा च घंटादिवत्तस्य सर्वत्रोपलभ्यमानगुणत्वमित्युभयोः सर्वगतत्वं न वा कस्यचिदेविशेषात् । यच्चाकाशवदित्युक्तम् । तत्राकाशस्य को गुणः सर्वत्रोपलभ्यते-शब्दः, महत्त्वं वा? न तावच्छन्दः, अत्याकाशगुणत्वनिपे-५ घात् । नापि महत्त्वम् ; अस्यातीन्द्रियत्वेनोपलल्मालम्भवात् । एतेन 'वुयाधिकरणं द्रव्यं विभु नित्यत्वे सत्यदायुपलभ्यमानगुणाधिष्ठानत्वादाकाशवत्' इत्यपि प्रत्युक्तम् ; साधनविकलत्वादृष्टान्तस्य । हेतोश्वानकान्तिकत्वम् , परमाणूनां नित्यत्वे सत्यस्मदाधुपलभ्यमानपाकजगुणाधिष्ठानत्वेपि विभुत्वाभावात्। तत्पा-१० कजगुणानामस्मदाद्यप्रत्यक्षत्वे हि 'विवादाध्यासितं क्षित्यादिकमुपलब्धिमत्कारणं कार्यत्वाद्धटादिवत्' इत्यत्र प्रयोगे व्याप्तिर्न स्यात् । अथ 'नित्यत्वे सत्यस्मदादिवाह्येन्द्रियोपलभ्यमानगुणत्वात् इत्युच्यते; तर्हि बाह्येन्द्रियोपलभ्यमानत्वस्य धुंद्धावसिद्धर्विशेषणासिद्धो हेतुः। नित्यत्वं च सर्वथा, कथञ्चिद्वा विवक्षितम् ? सर्वथा चेत्, पुनरपि विशेषणासिद्धत्वम् ! कथश्चिञ्चेत्, घटादिनानेकान्तः, तस्य कथञ्चिन्नित्यत्वे सत्यलदाधुपलभ्यमानगुणाधिष्ठानत्वेपि विभुत्वाभावात्। यदप्युक्तम्-सर्वगत आत्मा द्रव्यत्वे सत्यमूर्त्तत्वादाकाशवत् । २० 'द्रव्यात्' (द्रव्यत्वात्) इत्युच्यमाने हि घटादिना व्यभिचारः, तत्परिहारार्थम् 'अमूर्त्तत्वात्' इत्युक्तम् । 'अमूर्त्तत्वात्' इत्युच्यमाने च रूंपादिगुणेन गमनादिकर्मणा वानेकान्तः, तनिवृत्त्यर्थ 'द्रव्यत्वे सति' इत्युक्तम् । १ घटपक्षे देशान्तरपरित्यागेन देशान्तरमसौ व्रजेत् । २ लोकत्रये। ३ आत्मघटयोः । ४ आत्मनोपीत्यर्थः । ५ उभयोगमनस्य । ६ अतः साधनविकलो दृष्टान्तः । ७ सर्वत्रोपलभ्यमानगुणत्वादित्यस्य निराकरणपरेण ग्रन्थेन। ८ परमाणुभिर्व्यभिचारपरिहारार्थम् । ९ घटादिना व्यभिचारनिराकरणार्थम् । १० परेणाझीक्रियमाणे । ११ ईश्वरस्य । १२ तत्पाकजगुणानामस्मदाद्यप्रत्यक्षत्वे यद्यत्कार्य तत्तद्धीमद्धेतुकमिति मानसप्रत्यक्षेण साकल्येन व्याप्तिग्रहणं न स्यादिति भावः । कार्याप्रत्यक्षत्वे कार्यकारणयोर्व्याप्त्यसम्भवात् । १३ गुणरूपायाम् । १४ द्रव्यापेक्षया । १५ असर्वगतद्रव्यपरिमाणलक्षणमूर्त्तत्वस्य रूपादिष्वभावाद्रूपादीनाममूर्तत्वम् , रूपादीनां तत्परिमाणाभावः कुतः १ निर्गुणा गुणा इत्यभिधानात् ।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy