________________
५८२
प्रमेयकमलमार्तण्डे [४. विषयपरि० तदप्यसमीचीनम् । यतोऽमूर्त्तत्वं मूर्त्तत्वाभावः, तत्र किमिदं मूर्त्तत्वं नाम यत्प्रतिषेधोऽमूर्त्तत्वं स्यात् ? रूपादिमत्त्वम् , असर्वगतद्रव्यपरिमाणं वा? प्रथमपक्षे मनसानेकान्तः तस्य द्रव्यत्वे सत्यमूर्त्तत्वेपि सर्वगतत्वाभावात् । द्वितीयपक्षे तु किमसर्वगत५द्रव्यं भवतां प्रसिद्धं यत्परिमाणं मूर्तिर्वर्ण्यते? घटादिकमिति
चेत्, कुतस्तत्तथा? तथोपलम्भाच्चेत्, किं पुनरसौ भवतः प्रमाणम् ? तथा चेत्, तद्वदात्मनोपि स एवासर्वगतत्वं प्रसाधयतीति मूर्त्तत्वम् , अतः 'अमूर्त्तत्वात्' इत्यसिद्धो हेतुः। तदसाधने
न प्रमाणम्-"लक्षणयुक्ते वाधासम्भवे तल्लक्षणमेव दूषितं स्यात्" २० [प्रमाणवार्तिकालं०] इति न्यायात्। तथा चातो घटादावप्यसर्वगतत्वमतिदुर्लभम् । शक्यं हि वक्तुम्-'घटादयः सर्वगता द्रव्यत्वे सत्यमूर्तत्वादाकाशवत्' इति । पक्षस्य प्रत्यक्षबाधनं हेतोश्वासिद्धिः उभयंत्र समाना।
ननु चात्मनः सर्वगतत्वात्तत्रास्त्यमूर्त्तत्वमसर्वगतद्रव्यपरिमाण१५ सम्वन्धाभावलक्षणं न घटादौ विपर्ययात् । ननु चास्य कुतः सर्व
गतत्वं सिद्धम्-साधनान्तरात्, अत एव वा? साधनान्तराञ्चेत्; तदेव (तत एव) समीहितसिद्धेः 'द्रव्यत्वे सत्यमूर्त्तत्वात्' इत्यस्य वैयर्थ्यम् । अत एव चेदन्योन्याश्रयः-सिद्ध हि तस्य सर्वगतत्वेऽसर्वगतद्रव्या(व्य)परिमाणसम्वन्धरूपमूर्त्तत्वाभावोऽमूर्त्तत्वं २० सिध्यति, अतश्च तत्सर्वगतत्वमिति ।
किञ्च 'अमूर्त्तत्वात्' इति किमयं प्रसज्यप्रतिषेधो मूर्त्तत्वाभावमात्रममूर्त्तत्वम्, पर्युदासो वा मूर्तत्वादन्यद्भावान्तरमिति? तत्राद्यविकल्पोऽयुक्तः, तुच्छाभावस्य पीकप्रबन्धेन प्रतिषेधात् ।
सतोपि चास्य ग्रहणोपायाभावादज्ञातासिद्धो हेतुः। न हि प्रत्यक्ष२५ स्तब्रहणोपायः; तस्येन्द्रियार्थसन्निकर्षजत्वात् , तुच्छाभावेन सह मनसोऽन्यस्य चेन्द्रियस्य सन्निकर्षाभावात्।।
ननु मन आत्मना सम्बद्धमात्मविशेषणं च तेदभावः, ततः सम्बद्धविशेषणीभीवस्तेन मनस इति । युक्तमिदं यद्यसावात्मनो विशेषणं भवेत् । न चास्यैतदुपपन्नम् । विशेष्ये हि विशिष्टप्रत्यय
१ वैशेषिकाणाम् । २ असर्वगतत्वेन। ३ उपलम्भः। ४ असर्वगतद्रव्यपरिमाणोपलम्भः प्रमाणस्य लक्षणम् । ५ प्रमाणे। ६ प्रमाणस्यात्मन्यसर्वगतत्वासाधनलक्षणे वाधासम्भवे । ७ तस्य प्रमाणस्य । ८ आत्मन्यसर्वगतत्वोपलम्भस्याप्रमाणत्वे च । ९ आत्मनि घटादौ च । १० असर्वगतत्वात् । ११ अमूर्तत्वम् । १२ अभावनिराकरणावसरे । १३ तुच्छाभावेन सह मनसः सन्निकर्ष दर्शयति परः। १४ अमूर्त्तत्वाभावः। १५ सम्बन्धः । १६ परेणोक्तं यत् । १७ मूर्त्तत्वाभावलक्षणं विशेषणम् ।