SearchBrowseAboutContactDonate
Page Preview
Page 742
Loading...
Download File
Download File
Page Text
________________ ५८० प्रमेयकमलमार्तण्डे [४. विषयपरि० किञ्च, आत्मनो निष्क्रियत्वे संसाराभावो भवेत् । संसारो हि शरीरस्य, मनसः, आत्मनो वा स्यात् ? न तावच्छरीरस्य; मनुष्यलोके भस्मीभूतस्यामरपुराऽगमनात् । नापि मनसः; निष्क्रियस्यास्यापि तद्विरहात् । सक्रियत्वेपि ५तक्रियायास्ततोऽमेदे तद्वत्तदनित्यत्वप्रसङ्गानास्य क्वचित्क्षणमात्रमवस्थानं स्यात् । मेदे सम्बन्धासिद्धिः, समवायनिषेधात् । अचेतनं च तदनिष्टनरकादिपरिहारेणेष्टे स्वर्गादौ कथं प्रवर्त्ततखभावतः, ईश्वरात्, तदात्मनः, अदृष्टाद्वा ? प्रथमपक्षे दत्तः सर्वत्र ज्ञानाय जलाञ्जलिः । अथेश्वरप्रेरणात्, नतनिषेधात् । १० को वायमीश्वरस्याग्रहो यतस्तत्प्रेरयति, न तदात्मानम् ? अस्य प्रेरणे चेर्दैमनुगृहीतं भवति "अज्ञो जन्तुरनीशोयमात्मनः सुखदुःखयोः । ईश्वरप्रेरितो गच्छेत्स्वर्ग वा श्वभ्रमेव वा॥" [महाभा० वनपर्व० ३०१२८] इति । १५ तदात्मप्रेरणात्' इत्यत्रापि ज्ञातम् , अज्ञातं वा तत्तेन प्रेर्येत ? न तावदाद्यो विकल्पः, जन्तुमात्रस्य तत्परिज्ञानाभावात् । नापि द्वितीयः; अज्ञातस्य बाणादिवत्प्रेरणासम्भवात् । ननु खप्ने वहस्ताद्योऽज्ञाता एव प्रेर्यन्ते; न अहितपरिहारेण हिते प्रेरणा(s) सम्भवात्, ज्वलज्वलनज्वालाजालेपि तत्प्रेरणोपलम्भात् । २० अदृष्टप्ररेणात्; इत्यप्यसारम्; अचेतनस्यापि(स्यास्यापि) तत्प्रेरकत्वायोगात् । तत्प्रेरितस्यात्मन एवं वरं प्रवृत्तिरस्तु चेतनत्वात्तस्य । दृश्यते हि वशीकरणौषधसंयुक्तस्य चेतनस्यानिष्टगृहगमनपरिहारेण विशिष्टगृहगमनम् । तन्न मनसोपि संसारः। . १ पर्यायापेक्षया। २ क्रियामनसोः समवायेन सम्बन्धो भविष्यतीत्युक्ते सत्याहाचार्यः। ३ परमतेऽचेतनं मनः। ४ मनःसम्बन्धिजीवात् । ५ इष्टानिष्टवस्तुषु । ६ शानाभावेप्यचेतनस्य मनस इष्टानिष्टवस्तुपु प्रवृत्तिनिवृत्तिदर्शनात् । ७ मन एव प्रेरयति नात्मानमयमेवाग्रह इत्याशङ्कयाह । ८ अग्रे वक्ष्यमाणं भवच्छास्त्रोक्तम् । ९ भवता स्वीकृतम् । १० मनसः प्रेरणे चेदमनुगृहीतं न भवतीति भावः। ११ तदात्मना। १२ अणुरूपमचेतनमतीन्द्रियं मनस्तस्य । १३ अनैकान्तिकत्वं भावयति । १४ 'इति चेत्' इत्युपरितः । १५ तुर्यो विकल्पः। १६ मन एव । १७ न मनसः। १८ अनिष्टनरकादिपरिहारेणेष्टस्वर्गादौ। १९ चेतनवादात्मनः प्रवृत्तिरसिद्धत्युक्ते सत्याहाचार्यः।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy