SearchBrowseAboutContactDonate
Page Preview
Page 741
Loading...
Download File
Download File
Page Text
________________ सू० ४११० आत्मद्रव्यवादः ५७९ यञ्चान्यदुक्तम्-'सर्वगत आत्मा सर्वत्रोपलभ्यमानगुणत्वादाकाशवत्' इति तत्र किं स्वशरीर एव सर्वत्रोपलभ्यमानगुणत्वं हेतुः, उत खशरीरवत्परशरीरेऽन्यत्र च? तत्र प्रथमपक्षे विरुद्धो हेतुः, तत्रैव ततस्तस्य सर्वगतत्वसिद्धः। द्वितीयपक्षे त्वसिद्धः, तथोपलम्भाभावात् । न खलु बुद्धादयस्तद्गुणाः सर्वत्रोपलभ्यन्ते, ५ अन्यथा प्रतिप्राणि सर्वज्ञत्वादिप्रसङ्गः । अथ मन्याखेटवत्खेटान्तरे मनुष्यजन्मवजन्मान्तरे चोपलभ्यमानगुणत्वं विवक्षितम् ; तत्किं युगपत् , क्रमेण वा ? युगपञ्चेत् : असिद्धो हेतुः। क्रमेण चेत्, सर्वे सर्वगताः स्युः, घटादीनामपि तथा सर्वत्रोपलभ्यमानगुणत्वसम्भवात् । तेषां देशान्तरगमना- १० त्तत्सम्भवे आत्मनोपि ततस्तत्सम्भवोस्तु तद्वत्तस्यापि सक्रियत्वात् । प्रत्यक्षेण हि सर्वो देशाद्देशान्तरमायातमात्मानं प्रतिपद्यते, तथा च वदत्यहमद्य योजनमेकमागतः। मनः शरीरं वागतमिति चेत् ; किं पुनस्तदहम्प्रत्ययवेद्यम् ? तथा चेत्, चार्वाकमतानुषङ्गः। ननु चास्य सक्रियत्वे लोष्टादिवन्मतिभिः सम्बन्धः स्यात् । १५ तत्र केयं मूर्तिर्नाम-असर्वगतद्रव्यपरिमाणम् , रूपादिमत्त्वं वा स्यात् ? तत्राद्यपक्षोन दोषावहः, अभीष्टत्वात् । न हीष्टमेव दोषाय जायते । रूपादिमती मूर्तिः स्यादिति चेत्, न व्याप्त्यभावात् । रूपादिमन्मूर्तिमानात्मा सक्रियत्वाद्वाणादिवत् ; इत्यप्यसुन्दरम् ; मनसाऽनैकान्तिकत्वात् । न चास्य पक्षीकरणम्, 'रूपादिविशेषगुणा-२० नधिकरणं सन्मनोर्थ प्रकाशयति शरीरादर्थान्तरत्वे सति सर्वत्र शौनकारणत्वादात्मवत्' इत्यनुमानविरोधानुपङ्गात् । ननु सक्रियत्वे सत्यात्मनोऽनित्यत्वं स्याद्धटादिवत्। इत्यपि वार्तम् । परमाणुभिर्मनसा चानेकान्तात् । किञ्च, अस्यातः कथञ्चिदनित्यत्वं साध्येत, सर्वथा वा ? कथ-२५. श्चिञ्चेत्, सिद्धसाधनम् । सर्वथा चानित्यत्वस्य घटादावप्यसिद्धत्वात्साध्यविकलता दृष्टान्तस्य । १ अन्तराले । २ परशरीरादौ। ३ आदिना दुःखित्वादिग्रहः । ४ द्वितीयपक्षे दूषणान्तरप्ररूपणार्थ परमाशङ्कयाह । ५ अयं शब्दो ग्रामभेदे। ६ तथा प्रतीतेरभावात् । ७ तत आत्मना मूर्तिमता भाव्यमिति भावः। ८ शरीरमसर्वगतद्रव्यमत्र । ९ यद्यत्सक्रियं तत्तद्रूपादिमन्मूर्तिमदिति। १० मनसः सक्रियत्वेपि रूपादिमन्मूर्तिमत्त्वाभावात् । ११ एवं निरूपणे घटेन व्यभिचारः । १२ इष्टानिष्टार्थेषु । १३ शानकारणत्वादित्युच्यमाने चक्षुषा व्यभिचारस्तनिवृत्त्यर्थं सर्वत्रेति विशेषणम् , तथापि शरीरेण व्यभिचारपरिहारार्थ शरीरादित्यादि । १४ कारणमत्र सहकारि ।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy