SearchBrowseAboutContactDonate
Page Preview
Page 740
Loading...
Download File
Download File
Page Text
________________ ५७८ प्रमेयकमलमार्तण्डे [४. विषयपरि० आत्मप्रदेशो वा? यदि शरीरम् ; तर्हि शरीरं प्रत्युपसर्पणाच्छरीरगुणाकृष्टाः पश्चादय इत्यात्मविशेषगुणाकृष्टत्वे साध्ये शरीरगुणाकृष्टत्वसाधनाद्विरुद्धो हेतुः। अथात्मा; तस्य समाकृष्यमाणार्थदेशकालाभ्यां संदाभिसम्ब५न्धान तं प्रति किश्चिदुपसत् । न ह्यत्यन्ताक्लिष्टकण्ठकामिनी कामुकमुपसर्पति । अन्यदेशो ह्यर्थोऽन्यदेशं प्रत्युपसर्पति, यथा लक्ष्यदेशार्थ प्रति बाणादिः । अन्यकालं वा प्रत्यन्यकालः, यथाङ्करं प्रत्यपरापरशक्तिपरिणामलाभेन वीजादिः । न चैतदुभयं नित्य व्यापित्वाभ्यामात्मनि सर्वत्र सर्वदा सन्निहिते सम्भवति, अतो १०'देवदत्तं प्रत्युपसर्पन्तः' इति धर्मिविशेषणं 'देवदत्तगुणाकृष्टा' इति साध्यधर्मः 'तं प्रत्युपसर्पणवत्त्वात्' इति साधनधर्मः परस्य स्वरुचि विरचित एव स्यात्। अथ शरीरात्मसंयोगो देवदत्तशब्दवाच्यः; न; अस्य तच्छब्दवाच्यत्वे तं प्रति चैषामुपसर्पणे 'तगुणाकृष्टास्ते' इत्यायातम् । न १५ च गुणेषु गुणाः सन्ति, निर्गुणत्वात्तेषाम् । 'आत्मसंयोगविशिष्टं शरीरं तच्छब्दवाच्यम्' इत्यत्रापि पूर्व वद्विरुद्धत्वं द्रष्टव्यम्। 'शरीरसंयोगविशिष्ट आत्मा तच्छब्दवाच्यः' इत्यत्रापि प्राक्तन एव दोषः नित्यव्यापित्वेनास्य सर्वत्र सर्वदा सन्निधानानिवार२० णात् । न खलु घटसंयुक्तमाकाशं मेर्वादौ न सन्निहितम् । अथ शरीरसंयुक्त आत्मप्रदेशस्तच्छब्देनोच्यते; स काल्प. निकः, पारमार्थिको वा? काल्पनिकत्वे काल्पनिकात्मप्रदेशगुणाकृष्टाः पश्वादयस्तथाभूतात्मप्रदेशं प्रत्युपसर्पणवत्त्वादिति तहु णानामपि काल्पनिकत्वं साधयेत् । तथा च सौगतस्येव तहणकृतः २५ प्रेत्यभावोपि न पारमार्थिकः स्यात् । न हि कल्पितस्य पावकस्य रूपादयस्तत्कार्य वा दाहादिकं पारमार्थिक दृष्टम् । पारमार्थिकाश्चेदात्मप्रदेशाः; ते ततोऽभिन्नाः, भिन्ना वा? यद्यभिन्नाः तदात्मैव ते, इति नोक्तदोषपरिहारः। भिन्नाश्चेत् ; तद्वि शेषगुणाकृष्टाः पश्वादय इत्येतत्तेषामेवात्मत्वं प्रसाधयतीत्यन्यात्म३० कल्पनानर्थक्यम् । कल्पने वा सावयवत्वेन कार्यत्वमनित्यत्वं चास्य स्यादित्युक्तम् । १ नित्यसर्वगतस्वादात्मनः । २ देशकालकृतोपसर्पणम् । ३ वैशेषिकस्य । ४ इति चेदिति योज्यम् । ५ पश्चादीनाम् । ६ अग्निर्माणवक इत्यादौ । ७ आत्मनः समाकृष्यमाणार्थदेशकालाभ्यामित्यादिना। ८ तस्य आत्मनः। ९ आत्मप्रदेशानाम् । १० घटवत्।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy