SearchBrowseAboutContactDonate
Page Preview
Page 731
Loading...
Download File
Download File
Page Text
________________ सू० ४.१०] दिग्द्रव्यवादः तदप्यसमीचीनम् : प्रोक्तप्रत्ययानामाकाशहेतुकत्वेनाकाशादिशोऽर्थान्तरत्वासिद्धेः। तत्प्रदेशश्रेणिवेव ह्यादित्योद्यादिवशात्याच्यादिदिग्व्यवहारोपपत्तेन तेषां निहतुकत्वं नाप्यविशिष्टपदार्थहेतुकत्वम् । तथाभूतप्राच्यादिदिक्संवन्धाञ्च मूर्त्तद्रव्येषु पूर्वापरादिप्रत्ययविशेषस्योत्पत्तेन परस्परापेक्षया मूर्तद्रव्याण्येव तद्धेतवो५ येनेतरस्य पूर्वत्वासिद्धावन्यतरत्यापरत्वासिद्धिः, तदसिद्धौ चैकतरस्य पूर्वत्वायोगादितरेतराश्रयत्वेनोमयाभावः स्यात् । नन्वेवमाकाशप्रदेशश्रेणिष्वपि कुर्तस्तत्सिद्धिः ? स्वरूपत एव तत्सिद्धौ तस्य परीवृत्त्यभावप्रसङ्गः, अन्योन्यापेक्षया तलिद्धौ अन्योन्याश्रयणादुभयाभावः; तदेतदिक्प्रदेशेष्वपि पूर्वापरादि-१० प्रत्ययोत्पत्तौ समानम् । यथैव हि मूर्त्तद्रव्यमवधिं कृत्वा मूर्तेष्वेव 'इदमतः पूर्वेण' इत्यादिप्रत्यया दिग्द्रव्यहेतुकास्तथा दिग्भेमवधिं कृत्वा दिग्भेदेष्वेव 'इयमतः पूर्वा' इत्यादिप्रत्यया द्रव्यान्तरहेतुकाः सन्तु विशिष्टप्रत्ययत्वाविशेषात् , तथा चानवस्था। परस्परापेक्षया तत्सिद्धावितरेतराश्रयणादुभयाभावः । स्वरूपस्तित्प्रत्ययप्रसिद्धौ १५ तेनैवानेकान्तात् कुतो दिग्द्रव्यसिद्धिस्तत्प्रत्ययपरावृत्यभावश्चानुषज्यः। सवितुरुं प्रदक्षिणमावर्त्तमानस्येत्यादिन्यायेन दिग्द्रव्ये प्राच्यादिव्यवहारोपपत्तौ तत्प्रदेशपङ्किण्वऽप्यत एव तेव्यवहारोपपत्ते. रलं दिग्द्रव्यकल्पनया, देशद्रव्यस्यापि कल्पनाप्रसङ्गात्-'अयमतः२० पूर्वो देशः' इत्यादिप्रत्ययस्य देशद्रव्यमन्तरेणानुपपत्तेः। पृथिव्यादि. रेव देशद्रव्यम् ; इत्यसत्। तत्र पृथिव्यादिप्रत्ययोत्पत्तेः । पूर्वादि १ आकाशस्यैकत्वादिग्व्यवहारः कथं स्यादित्याह । २ आकाशप्रदेशलक्षण । ३ पूर्वाद्रेः। ४ पश्चिमाद्रेः। ५ मूर्तद्रव्येषु पूर्वापरादिप्रत्ययविशेषोत्पत्तिप्रकारेण । ६ तस्य-पूर्वापरत्वस्य । ७ पूर्वापराद्रेः। ८ परावृत्तिः निवृत्तिः। ९ न च तथा पूर्वादिदिशामपि कस्यचिद्देशस्यापेक्षया पश्चिमादिव्यपदेशोस्ति। १० पूर्वापेक्षयाऽपरः, अपरापेक्षयापूर्व इति । ११ चोद्यम् । १२ भवन्मते। १३ दिक्। १४ दिशः सकाशात् । १५ जैनमते। १६ अन्यदिग्द्रव्यापेक्षयाऽनवस्था तत्रापि तत्प्रत्ययहेतुत्वस्यापरदिग्द्रव्यहेतुत्वप्रसङ्गात् । १७ दिग्भेदेषु दिग्द्रन्यव्यतिरिक्तद्रव्यान्तराभावेपि पूर्वापरादिप्रत्ययस्य स्वतो जायमानत्वात् । १८ पूर्वापरेति । १९ पूर्वापरादिप्रत्ययेन । २० तत्प्रत्ययविलक्षणत्वादित्यस्य हेतोः। २१ दिग्द्रव्यं पूर्वापरादिप्रत्ययस्य कारणं न भवतीति भावः। २२ पूर्वापर । २३ तस्य आकाशस्य । २४ प्राच्यादि । २५ तथा च नव द्रव्याणीति द्रव्यसंख्याव्याघातः स्यात् । २६ तस्य पृथिव्यादिप्रत्ययहेतुत्वेनायमतः पूर्वो देश इति प्रत्ययहेतुत्वाऽनुपपत्तेः ।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy