________________
५७०
प्रमेयकमलमार्तण्डे [४. विषयपरि० दिक्कतः पृथिव्यादिषु पूर्वदेशादिप्रत्ययश्चेत् । तर्हि पूर्वाद्याकाशकृतस्तत्रैव पूर्वादिदिक्प्रत्ययोस्त्वऽलं दिकल्पानाप्रयालेन।
नन्वेवमादित्योदयादिवशादेवाकाशप्रदेशपतिष्विव पृथिव्यादिप्वपि पूर्वापरादिप्रत्ययसिद्धराकाशप्रदेशश्रेणिकल्पनाप्यनार्थका ५अवत्विति चेत्, न; 'पूर्वस्यां दिशि पृथिव्यादयः' इत्याद्याधाराधेयव्यवहारोपलम्भात् पृथिव्यायधिकरणभूतायास्तत्प्रदेशपड़े परिकल्पनस्य सार्थकत्वात् । आकाशस्य च प्रमाणान्तरतः प्रसाधितत्वात् । तन्न परपरिकल्पितं दिग्द्रव्यमप्युपपद्यते।
नाप्यात्मद्रव्यम् । तद्धि सर्वगतत्वादिधर्मोपेतं परैरभ्युपेयते । १० न चास्य तदुपेतत्वमुपपद्यते प्रत्यक्षविरोधात् । प्रत्यक्षेण ह्यात्मा 'मुख्यहं दुःख्यहं घटादिकमहं वेद्मि' इत्यहमहमिकया स्वदेह एव सुखादिस्वभावतया प्रतीयते, न देहान्तरे परसम्बन्धिनि, नाप्यन्तराले । इतरथा सर्वस्य सर्वत्र तथा प्रतीतिरिति सर्व दार्शत्वं भोजनादिव्यवहारसधैरश्च स्यात् ।। २५ अनुमानविरोधाचास्य तद्धर्मोपेतत्वायोगः; तथाहि-नात्मा परममहापरिमाणाधिकरणो द्रव्यान्तराऽसाधारणसामान्यवत्त्वे सत्यनेकत्वाद्धटादिवत् । 'अनेकत्वात्' इत्युच्यमाने हि सामान्येनानेकान्तः, तत्परिहारार्थ 'सामान्यवत्त्वे सति' इति विशेषणम् ।
तथाकाशादिना व्यभिचारः, तत्परिहारार्थ 'द्रव्यान्तरासाधारण२० सामान्यवत्त्वे सति' इत्युच्यते । एकस्माद्धि द्रव्यादन्यद्रव्यं
द्रव्यान्तरम्, तदसाधारणसामान्यवये सत्यनेकत्वमाकाशादौ नास्तीति । अत एव परममहापरिमाणलक्षणगुणेनापि नानेकान्तः।
तथा, नात्मा तत्परिमाणाधिकरणो दिकालाकाशान्यत्वे सति द्रव्यत्वाद्धटादिवत् । न सामान्येन परममहापरिमाणेन वाने२५ कान्तः, तयोरगव्यत्वात् । नापि दिगादिना, 'तदन्यत्वे सति' इति विशेषणात् ।
तथा, नात्मा तत्परिमाणाधिकरणः क्रियावत्त्वाद्वाणादिवत् । न चेदमसिद्धम् ; 'योजनमहमागतः क्रोशं वा' इत्यादिप्रतीतितस्तत्सिद्धेः । न च मनः शरीरं वागतमित्यभिधातव्यम् । तस्याहं
१ व्योम । २ निखिलद्रव्यावगाहान्यथानुपपत्तेः । ३ आत्मनः सर्वैरात्मभिः सम्बन्धात्। ४ गोत्वाश्वत्वमहिषत्वादिना । ५ सामान्यवत्त्वादित्युच्यमाने । ६ यतो द्रव्यवं सत्त्वं वा सामान्यमाकाशादिषु । ७ आत्मलक्षणात् । ८ आकाशम् । ९ गुणत्वसामान्यसद्भावादनेकत्वाभावाच्च । १० तत्-परममहत् ।