________________
५६८
प्रमेयकमलमार्तण्डे [४. विषयपरि० कर्ममात्रमालम्बतेऽतिप्रसङ्गादेव । अतस्तंद्विशेषणं कालोऽभ्यः पगन्तव्यः । कथमन्यथा चिरक्षिप्रव्यवहारोपि स्यात् ? एक हि कर्ता किञ्चित्कार्य चिरेण करोति व्यासङ्गादनार्थित्वाद्वा. किञ्चित्तु क्षिप्रमर्थितया। तत्र 'चिरेण कृतं क्षिप्रं कृतम्' इति ५प्रत्ययौ विशिष्टत्वाद्विशिष्टं निमित्तमाक्षिपत इति कालसिद्धिः।
लोकव्यवहाराच; प्रतीयन्ते हि प्रतिनियत एव काले प्रति नियता वनस्पतयः पुष्यन्तीत्यादिव्यवहारं कुर्वन्तो व्यवहारिणः । यथा वसन्तसमये एव पाटलादिकुसुमानामुद्भवो न कालान्तरे।
इत्येवं कार्यान्तरेष्वप्यभ्यूह्यम् 'प्रसवनकालमपेक्षते' इति व्यव. १० हारात् । समयमुहूर्तयामाहोरात्रार्द्धमासवयनसंवत्सरादिव्यव. हाराञ्च तत्सिद्धिः। तन्न परपरिकल्पितं कालद्रव्यमपि घटते।
नापि दिग्द्रव्यम्; तत्सद्भावे प्रमाणाभावात् । यच्च दिशः सद्भावे प्रमाणमुक्तम्-"मूर्तेष्वेव द्रव्येषु मूर्त्तद्रव्यमवधिं कृत्वेद मतः पूर्वेण दक्षिणेन पश्चिमेनोत्तरेण पूर्वदक्षिणेन दक्षिणापरे १५णाऽपरोत्तरेणोत्तरपूर्वेणाधस्तादुपरिष्टादित्यमी दश प्रत्यया यतो
भवन्ति सा दिग" [प्रश० भा० पृ० ६६] इति । तथा च सूत्रम्-"अत ईदमिति यतस्तद्दिशो लिङ्गम्" [वैशे० सू० २।२।१०] तथा च दिग्द्रव्यमितरेभ्यो भिद्यते दिगिति व्यवहतव्यम् , पूर्वादिप्रत्ययलिङ्गत्वात्, यत्तु न तथा न तत्पूर्वादि२० प्रत्ययलिङ्गम् यथा क्षित्यादि, तथा चेदम् , तस्मात्तथेति । न चैते
प्रत्यया निनिमित्ताः; कादाचित्कत्वात् । नाप्यविशिष्टनिमित्ताः; विशिष्टप्रत्ययत्वाद्दण्डीतिप्रत्ययवत् । न चान्योन्यापेक्षमूर्तद्रव्यनिमित्ताः; परस्पराश्रयत्वेनोभयप्रत्ययाभावानुषङ्गात् । ततोऽन्यनिमित्तोत्पाद्यत्वासम्भवादेते दिश एवानुमापकाः । प्रयोगः२५ यदेतत्पूर्वापरादिज्ञानं तन्मूलद्रव्यव्यतिरिक्तपदार्थ निवन्धनं तत्प्रत्ययविलक्षणत्वात्सुखादिप्रत्ययवत् । विभुत्वैकत्वनित्यत्वादयश्वास्या धर्माः कालवद्वगन्तव्याः । तस्याश्चैकत्वेपि प्राच्यादिभेदव्यवहारो भगवतः सवितुर्मेसें प्रदक्षिणमावर्त्तमानस्य लोकपाल गृहीतदिक्प्रदेशैः संयोगाद्धटते ।
१ युगपदेते कुर्वन्ति युगपदेतानि कृतानीति तयोः कर्तृकर्मणोः। २ पुरुषाः । ३ पुत्रोत्पत्त्यादिलक्षणेषु । ४ शानं भवतीति शेषः। ५ लिङ्गसिद्धौ। ६ बसः। ७ पटादिवत्। ८ साधारणाऽऽकाशादिकारणका न भवन्तीति भावः। ९ एकस्य वस्तुनः पूर्वत्वसिद्धौ सत्यां तदपेक्षया इतरस्यापरत्वसिद्धिरितरस्यापरत्वसिद्धौ सत्यां च तदपेक्षयाऽपरत्वसिद्धि( प्रथमस्य पूर्वत्वसिद्धि )रिति । १० नान्यस्याकाशादेः । ११ इन्द्रादि।