SearchBrowseAboutContactDonate
Page Preview
Page 727
Loading...
Download File
Download File
Page Text
________________ सू० ४.१०] कालद्रव्यवादः सच मुख्यः कालोऽनेकद्रव्यम् , प्रत्याकाशप्रदेशं व्यवहारकालभेदान्यथानुपपत्तेः । ग्रंत्याकाशप्रदेशं विभिन्नो हि व्यवहारकालः कुरुक्षेत्रलङ्काकाशदेशयोदिवसादिभेदान्यथानुपपत्तेः । ततः प्रतिलोकाकाशप्रदेशं कालस्याणुरूपतया भेदसिद्धिः । तदुक्तम् "लोयायासपएले एकेके जे ट्ठिया हु एकेका। रयणाणं रातीविच ते कालाणू मुशेयव्या ! " [द्रव्यसं० गा० २२ (२) योगपद्यादिप्रत्ययाविशेषात्तस्यैकत्वम् ; इत्यप्यसत्; तत्प्रत्यया. विशेषासिद्धः। तेषां परस्परं विशिष्टत्वात्कालस्याप्यतो विशिष्टत्व-१० सिद्धिः। सहकारिणामेव विशिष्टत्वं न कालस्य; इत्यप्यनुत्तरम्; स्वरूपमभेद्यतां सहकारित्वप्रतिक्षेपात् । यदि चास्य निरवयवैकद्रव्यरूपताभ्युपगम्यते कथं तीतीतादिकालव्यवहारः ? स हि किमतीताद्यर्थक्रियासम्बन्धात्, खतो वा स्यात् ? अतीताद्यर्थक्रियासम्बन्धाच्चेत् ; कुतस्तासाम-१५ तीतादित्वम् ? अपरातीताद्यर्थक्रियासम्बन्धाचेत् ; अनवस्था । अतीतादिकालसम्बन्धाचेत्; अन्योन्याश्रयः ! स्वतस्तस्यातीतादिरूपता चायुक्ता, निरंशत्वभेदरूपत्वयोर्विरोधात् । ___योगपद्यादिप्रत्ययाभावश्चैवंवादिनः स्यात्; तथाहि-यत्कार्यजातमेकस्मिन्काले कृतं तद्युगपत्कृतमित्युच्यते । कालैकत्वे चाखि-२० लकार्याणामेककालोत्पाद्यत्वेनैकदेवोत्पत्तिप्रसङ्गान्न किञ्चिदयुगपस्कृतं स्यात् । चिरक्षिप्रव्यवहाराभावश्चैवंवादिनः । यत्खलु बहुना कालेन कृतं तच्चिरेण कृतम् । यच्च स्वल्पेन कृतं तत्क्षिप्रं कृतमित्युच्यते । तच्चैतदुभयं कालैकत्वे दुर्घटम् । १ कालपरमाणुलक्षणम् । २ मुख्यकालद्रव्यानेकत्वाभावे। ३ हेतुरसिद्ध इत्युक्ते सत्याह। ४ चन्द्रार्कादिदक्षिणायनोत्तरायणयोः सतोः। ५ लोकाकाशप्रदेशे एकैके ये स्थिताः खलु एकैके । रत्नानां राशिरिव ते कालाणवो ज्ञातव्याः। ६ सिद्धे हि क्रियाणामतीतादित्वे तत्सम्बन्धात्कालस्यातीतादित्वसिद्धिस्तत्सिद्धौ च तत्सम्बन्धातासां तत्सिद्धिरिति । ७ निरंशस्य कालस्यातीतत्ववर्तमानत्वभविष्यत्वलक्षणधर्माणां सद्भावो न घटते इति भावः। ८ कार्यसमूहः । ९ कालस्य नित्यैकत्वादिरूपत्वे । १० अयोगपद्याभावे तदपेक्षया जायमानस्य योगपद्यस्याप्यभाव इति भावः । प्र.क. मा०४८
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy