SearchBrowseAboutContactDonate
Page Preview
Page 728
Loading...
Download File
Download File
Page Text
________________ प्रमेयकमलमार्तण्डे [४. विषयपरि० ननु चैकत्वेषि कालस्योपाधिभेदाढ़ेदोपपत्तेर्न योगपद्यादि प्रत्ययाभावः। तदुक्तम्-"मणिवत्पाचकवद्रोपाधिदात्कालभेद ] इति; तदप्ययुक्तम् । यतोऽत्रोपाधिमेदः कार्यभेद एव । स च 'युगपत्कृतम्' इत्यत्राप्यस्त्येवेति किमित्य ५युगपत्प्रत्ययो न स्यात् ? अथ क्रमावी कार्यभेदः कालभेदव्यवहारहेतुः । ननु कोस्य क्रमभावः ? युगपदनुत्पादश्चेत्, 'युगपदः नुत्पादः' इत्यस्य भाषितस्य कोर्थः ? एकस्मिन्कालेऽनुत्पादः सोयमितरेतराश्रयः-यावद्धि कालस्य भेदो न लिद्ध्यति न ताव कार्याणां भिन्नकालोत्पादलक्षणः क्रमः सिध्यति, यावच्च कार्याणां १० क्रममावो न सिध्यति न तावत्कालस्योपाधिमेदाढ़ेदः सिध्यतीति। ततः प्रतिक्षणं क्षणपर्यायः कालो भिन्नस्तत्समुदायात्मको लव. निमेपादिकालश्च । तथा चैककालमिदं चिरोत्पन्नमनन्तरोत्पन्न मित्येवमादिव्यवहारः स्यादुपपन्नो नान्यथा। एतेन परापरव्यतिकरः कालैकत्वे प्रत्युक्तः, तथाहि-भूम्यवयः २५ वैरालोकावयवैर्वा वहुमिरन्तरितं वस्तु विनकृष्टं परमिति चोच्यते स्वल्पैस्त्वन्तरितं सचिकृष्टमपरमिति च। तथा बहुभिः क्षणैरहो. रात्रादिभिर्वान्तरितं विप्रकृष्टं परमिति चोच्यते स्वल्पैस्त्वन्तरितं सनिकृष्टमपरमिति च । बह्वल्पभावश्च गुरुत्वपरिमाणादिवदपेक्षा. निबन्धनः कालैकत्वे दुर्घट इति । २० यौगपद्यादिप्रत्ययाविशेषात् कालस्यैकत्वे च गुरुत्वपरिमाणी देरप्येकत्वप्रसङ्गस्तुल्याक्षेपसमाधानत्वात् । ततो गुरुत्वपरिमाणादेरनेकगुणरूपतावत्कालस्यानेकद्रव्यरूपताभ्युपगन्तव्या । ये तु वास्तवं कालद्रव्यं नाभ्युपगच्छन्ति तेषां परापरयोगपद्या १ यथा स्फटिकमणौ पावके च यथाक्रमं जपाकुसुमादिखादिरादिलक्षणोपाधिभेदानेदस्तथा कार्यलक्षणोपाधिमेदाढ़ेदः कालस्यापीत्यर्थः, ततश्च व्यतिकरो न स्यादिति भावः। २ कालक्रमेणोत्पाद इत्यर्थः। ३ कालस्यैकत्वे योगपद्याभावो यतः। ४ बसः । ५ विपर्ययः। ६ कालस्य । ७ अस्मादयं गुरुरस्माल्लघुरिति व्यवहारो वस्तुन एकत्वे दुर्घटो यथा। ८ स्वपरापेक्षा । ९ गुरुत्वादिप्रत्ययाविशेषात् । १० अल्पपरिमाणस्यापि । ११ गुरुत्वपरिमाणमल्पत्वपरिमाणं च प्रतिपदार्थ भिद्यत इत्याक्षेपः, समाधानं-तर्हि योगपद्यादिप्रत्ययोपि प्रतिपदार्थ भिद्यते इति समानम्। १२ नित्यनिरंशैकद्रव्यरूपत्वे चार्थानां भूतभविष्यद्वर्तमानत्वं दुर्घटमतीतानागतवर्तमानकालभेदाभावात् , सिद्धे हि तद्भेदे तत्सम्वन्धादर्थानां तथा व्यपदेशः स्यान्नान्यथातिप्रसङ्गात् । न चास्य तत्सिद्धिर्घटते नित्यनिरंशैकरूपत्वात् । यदेवं विधं न तत्रातीतादिस्वरूपभेदाः । यथा परमाणौ । नित्यनिरंशैकरूपश्च भवद्भिः परिकल्पितः कालः । १३ मीमांसकसौगतद्राविडाः ।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy