SearchBrowseAboutContactDonate
Page Preview
Page 726
Loading...
Download File
Download File
Page Text
________________ प्रमेयकमलमार्तण्डे [४. विषयपरि० भीष्टो नित्यत्वविरोधानुषङ्गात् । क्षणविशरारुतया निखिलार्थानों नाधाराधेयभावः, इत्यपि मनोरथमात्रम्; क्षणविशरारुत्वस्या र्थानां प्रागेव प्रतिषेधात् । 'खे पतत्री' इत्याद्यऽवाधितप्रत्ययाच तद्भावप्रसिद्धः। ततः परेषां निरवद्यलिङ्गाऽभावान्नाकाशद्रव्यय ५प्रसिद्धिः। नापि कालद्रव्यस्य । यच्चोच्यते-कालद्रव्यं च परापरादित्ययादेव लिङ्गात्प्रसिद्धम् । कालद्रव्यस्य च इतरस्मा दे 'काल' इति व्यवहारे वा साध्ये स एव लिङ्गम् । तथा हि-काल इतरस्माद्भिद्यते 'काल' इति वा व्यतहर्त्तव्यः, परापरव्यतिकरयोगपद्यायोगपद्यचि. १० रक्षिप्रप्रत्ययलिङ्गत्वात्, यस्तु नेतरस्माद्भिद्यते 'काल' इति वान व्यवहियते नासावुक्तलिङ्गः यथा क्षित्यादिः, तथा च काला, तस्मात्तथेति। विशिष्टकार्यतया चैते प्रत्ययाः काले एव प्रतिबद्धाः। यद्विशिष्टकार्य तद्विशिष्टकारणादुत्पद्यते यथा घट इति प्रत्ययाः, विशिष्ट कार्य च परापरव्यतिकरयोगपद्यायोगपद्यचिरक्षिप्रप्रत्यया १५ इति । परापरयोः खलु दिग्देशकृतयोः व्यतिकरो विपर्ययः-यत्रैव हि दिग्विभागे पितर्युत्पन्नं परत्वं तत्रैव स्थिते पुत्रेऽपरत्वम् , यत्र चापरत्वं तत्रैव स्थिते पितरि परत्वमुत्पद्यमानं दृष्टमिति दिग्देशा. भ्यामन्यन्निमित्तान्तरं सिद्धम् ; निमित्तान्तरमन्तरेण व्यतिकरा सम्भवात् । न च परापरादिप्रत्ययस्य आदित्यादिक्रिया द्रव्यं वलि२० पलितादिकं वा निमित्तम् । तत्प्रत्ययविलक्षणत्वात्पटादिप्रत्यय वत् । तथा च सूत्रम् “अपरस्मिन्परं युगपदयुगपच्चिरं क्षिप्रमिति काललिङ्गानि" [वैशे० सू० २।२।६] आकाशवञ्चास्यापि विभुत्वनित्यैकत्वादयो धर्माः प्रतिपत्तव्या इति । __ अत्रोच्यते-परापरादिप्रत्ययलिङ्गानुमेयः कालः किमेकद्र२५व्यम् , अनेकद्रव्यं वा ? न तावदेकद्रव्यम् ; मुख्येतरकालभेदेनास्य द्वैविध्यात् । न हि समयावलिकादिर्व्यवहारकालो मुख्यकालद्रव्यमन्तरेणोपपद्यते यथा मुख्यसत्त्वमन्तरेण कैंचिदुपचरितं सत्त्वम्। १ आत्मनः। २ सौगतमतमालम्ब्य। ३ आदिपदेन योगपद्यायोगपचिरक्षिप्रादिग्रहः । ४ बसः । ५ तर्खेते प्रत्यया अविशिष्टनिमित्तका भविष्यन्तीत्युक्ते सत्याह । ६ घटे सत्येव प्रसिद्धाः। ७ कथम् ? तथा हि । ८ प्रत्यर्थः । ९ सन्निहितदिग्देशे । १० कालापेक्षया दूरत्वम् । ११ कालापेक्षया सन्निहितत्वम् । १२ कालद्रव्यम् । १३ कालद्रव्यम् विनाऽन्यन्निमित्तं परापरादिप्रत्ययस्य भविष्यतीत्याशङ्कायामाह । १४ प्रत्ययः-प्रतीतिः। १५ जैनादिभिः। १६ जैनैः। १७ व्यवहार । १८ आदिना लवनिमेषघटिकामुहूर्तप्रहरादिग्रहणम् । १९ अश्यादेरस्तित्वम् । २० माणवके । २१ अनेः। १३
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy