________________
सू० ४.१० आकाशद्रव्यविचारः रूपादीनामनुद्भूततयास्तित्वसम्भावना तथा शब्देपि पौदालेकत्वात् । न च पौद्गलिकत्वमसिद्धम् । तथाहि-पौगलिकः शब्दोऽस्मदादिप्रत्यक्षत्वेऽचेतनत्ने च लति क्रियावत्त्वाद्वाणादिवत् । न च मनसा व्यभिचारः; 'अलदादिप्रत्यक्षत्वे सति' इति विशेषणत्वात् । नाप्यात्मना; 'अचेतनत्वे सति' इति विशेषणात् ।५ नापि सामान्येन, अस्य क्रियावाभावाला । सेच 'अस्मदादि. प्रत्यक्षत्वे सति स्पर्शवत्वात्' इत्यादयो हेतवः प्रामुपन्यतास्ते सर्वे पोद्गलिकत्वमसाधका द्रष्टव्याः। ततः शब्दल्या काशगुणत्वासिद्धेर्नासौ तल्लिङ्गम्।
कुतस्तर्हि तत्सिद्धिरिति चेद् ? 'युगपन्निखिलद्रव्यावगाह-१० कार्यात्' इति ब्रूमः; तथाहि-युगपनिखिलद्रव्यावगाहः साधारणकारणापेक्षा तथावगाहत्वान्यथाऽनुपपत्तेः । ननु सर्पिषो मधुन्यवगाहो भस्मनि जलस्य जलेऽश्वादेर्यथा तथैवालोकतमसोरशेषार्थावगाहघटनान्नाकाशप्रसिद्धिः, तन्न; अनयोरप्याकाशाभावेऽवगा. हानुपपत्तेः।
ननु निखिलार्थानां यथाकाशेवगाहः तथाकाशस्याप्यन्यस्मिनधिकरणेऽवगाहेन भवितव्यमित्यनवस्था, तस्य स्वरूऐवगाहे सर्वार्थानां स्वात्मन्येवावगाहप्रसङ्गात्कथमाकाशस्यातः प्रसिद्धिः? इत्यप्यपेशलम् ; आकाशस्य व्यापित्वेन स्वावगाहित्वोपपत्तितोऽ. नवस्थाऽसम्भवात् , अन्येषामव्यापित्वेन वावगाहित्वायोगाच्च । २० न हि किश्चिदल्पपरिमाणं वस्तु स्वाधिकरणं दृष्टम् ; अश्वादेर्जलाद्यधिकरणोपलब्धेः। कथमेवं दिकालात्मनामाकाशेवगाहो व्यापित्वात् ; इत्यप्यसाम्प्रतम् ; हेतोरसिद्धः । तसिद्धिश्च दिग्द्रव्यस्यासत्त्वात्, कालात्मनोश्चासर्वगतद्रव्यत्वेनाने समर्थनात्प्रसिद्धेति । ननु तथाप्यमूर्त्तत्वेन कालात्मनोः पाताभावात्कथं तदाधेयता? २५ इत्यप्ययुक्तम् ; अमूर्चस्यापि ज्ञानसुखादेरात्मन्याधेयत्वप्रसिद्धः।
एतेनामूर्त्तत्वान्नाकाशं कस्यचिदधिकरणमित्यपि प्रत्युक्तम्; अमूर्त्तस्याप्यात्मनो ज्ञानाद्यधिकरणत्वप्रतीतेः। समानसमयवर्त्तित्वान्निखिलार्थानों नाधाराधेयभावः, अन्यथाकाशादुत्तरकालं भावस्तेषां स्यात्; इत्यप्यसमीचीनम् ; समसमयवर्तिनामप्यात्मा-३० मूर्त्तत्वादीनां तद्भावप्रतीतेः। न खलु परेणाप्यत्र पौर्वापरीभावोs
१ परस्य तव। २ पौद्गलिकस्वाभावाद्भावमनसः। ३ जैनैः । ४ वयं जनाः। ५ सकलद्रव्याणां साधारणमाश्रयकारणमाकाशम् । ६ साधाररणकारणमन्तरेण । आकाशाभावे। ७ बुडनमित्यर्थः। ८ जैनापेक्षया। ९ आत्मादीनाम्। १० वैशेषिकेण ।