SearchBrowseAboutContactDonate
Page Preview
Page 724
Loading...
Download File
Download File
Page Text
________________ प्रमेयकमलमार्तण्डे [४. विषयपरि० इति;प्रतिशब्दं पुदलद्रव्यस्य तत्समवायिकारणस्य भेदात्। शब्दस्य क्षणिकत्वनिषेधोच्च कथं समानजातीयासमवायिकारणत्वम् ? यदि चाकाशमनवयवं शब्दस्य समवायिकारणं स्यात् तर्हि शब्दस्य नित्यत्वं सर्वगतत्वं च स्यादाकाशगुणत्वात्तन्महत्त्ववत। ५क्षणिकैकदेशवृत्तिविशेषगुणत्वस्य शब्दे प्रमाणतः प्रतिषेधाच्च। तत्त्वे वा कथं न शब्दाधारस्याकाशस्य सावयवत्वम् ? नहि निरवयवत्वे 'तस्यैकदेशे एव शब्दो वर्त्तते न सर्वत्र' इति विभागो घटते। किञ्च, सावयवमाकाशं हिमवद्विन्ध्यावरुद्धविभिन्न देशत्वाश. १०मिवत् । अन्यथा तयो रूपरसयोरिवैकदेशाकाशावस्थितिप्रसक्तिः न चैतद् दृष्टमिष्टं वा। कथं वा तदाधेयस्य शब्दस्य विनाशः? स हि न तावदाश्रयविनाशाद्धटते; तस्य नित्यत्वाभ्युपगमात् । नापि विरोधिगुणसद्भा वात् , तन्महत्त्वादेरेकार्थसमवेतत्वेन रूपरसयोरिव विरोधित्वा१५ सिद्धेः । सिद्धौ वा श्रवणसमयेपि तद्भावप्रसङ्गः, तदा तन्मह स्वस्य भावात् । नापि संयोगादिविरोधिगुणः; तस्य तत्कारणत्वात् । नापि संस्कारः; तस्याकाशेऽसम्भवात् । सम्भवे वा तस्याभावे आकाशस्याप्यभावानुषङ्गस्तस्य तद्व्यतिरेकात् । व्यतिरेके वा तस्य' इति सम्बन्धो न स्यात् । नापि शब्दोपलब्धिप्राप. २० कादृष्टाभावात्तभावः, तुच्छाभावस्यासामर्थ्यतो विनाशाहेतुत्वात् खरविषाणवत्। तन्न शब्दस्याकाशप्रभवत्वमभ्युपगन्तव्यम् । · ननु चाऽस्य पौद्गलिकत्वेऽस्मदाद्यनुपलभ्यमानरूपाद्याश्रयत्वं न स्यात्पटादिवत् तन्नय[कादिना हेतोर्व्यभिचारात् । नाय नरश्मिषु जलसंयुक्तानले चानुभूतरूपस्पशवेत् शब्दाश्रयद्रव्ये२५ऽस्मदाद्यनुपलभ्यमानानामप्यनुद्भूततया रूपादीनां वृत्त्यविरोधः। यथा च घ्राणेन्द्रियेणोपलभ्यमाने गन्धद्रव्येऽनुभूतानां रूपादीनां वृत्तिस्तथात्रापि । यथा च तैजसत्वात्पार्थिवत्वाचात्रानुपलम्भेपि १ अनेकात् । २ पर्यायरूपेण वस्तुनो विनाशात् । ३ जैनेन । ४ तन्महत्त्ववत् । ५ तथा च हिमवद्विन्ध्ययोः सहचरभाव इति भावः। ६ परेण । ७ विरोधिगुणरूपस्य । ८ शन्दं प्रति । ९ संयोगादिः शब्दकारणमिति वचनात् । १० कार्यरूपेण। ११ यत्पौद्गलिकं तदस्मदाद्युपलभ्यमानरूपाद्याश्रयमित्युक्ते व्यणुकादिना पौद्गलिकेन व्यभिचारोऽस्मदाद्युपलभ्यमानरूपाश्रयत्वलक्षणसाध्याभावात्। १२ उष्णस्पर्शे। १३ अत्र रूपं भासुरम् । १४ परमते । १५ परमते । १६ नायनरश्म्यादिषु ( जलसंयुक्तानले गन्धद्रव्ये ) त्रिषु ।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy