________________
५४६
प्रमेयकमलमार्तण्डे [४. विषयपरि० प्रभवप्रत्यये हि रूपसेवावभासते नापरस्तद्वान् , एवं रसनादिप्रत्ययेपि वाच्यम्' इत्यविचारितरमणीयम् । यताः किमेकस्य रूपादिमतोऽसम्मको विरुद्धधर्माध्यासेनैकत्रैकत्वानेकत्वयोस्तादात्म्य विरोधात् , तद्रहणोपायासम्भवाद्वा? प्रथमपक्षे तत्र तयोः कथ५ञ्चित्तादात्म्यं विरुद्ध्यते,सर्वथा वा? सर्वथा चेत्, सिद्धसाध्यता। कञ्चिदेकत्वं तु रूपादिभिर्विरुद्धधर्माध्यासेप्येकस्याऽविरुद्धम चित्रज्ञानस्येव नीलाद्याकारैर्विकल्पज्ञानस्येव वा विकल्पेतराकारैरिति । यथा च रूपादिरहितं प्रत्यक्षे न प्रतिभासते तथा तद्हिता रूपादयोपि । न खलु मातुलिङ्गद्रव्यरहितास्तद्रूपादयः १० स्वप्नेप्युपलभ्यन्ते । वस्तुनश्चेदमेवाध्यक्षत्वं यदनात्मस्वरूपपरिहारेण वुद्धौ स्वरूपसमर्पणं नाम । इमे तु रूपादयो द्रव्यरहिता. स्तत्र स्वरूपं न समर्पयन्ति प्रत्यक्षतां च स्वीकर्तुमिच्छन्तीत्या मूल्यादानक्रयिणः।
किञ्च, इदं स्तम्भादिव्यपदेशाह रूपम्-किमेकं प्रत्येकम् , २५ अनेकानंशपरमाणुसञ्चयमानं वा? प्रथमपक्षे अधोमध्योात्मा
कैकरूपवत् रसाद्यात्मकैकस्तम्भद्रव्यप्रसङ्गः। द्वितीयपक्षे तु किमे कमनेकपरमाण्वाकारं ज्ञानं तद्राहकम् , एकैकपरमाण्वाकारमने वा? प्रथमविकल्पे चित्रैकज्ञानवद्रूपाद्यात्मकैकद्रव्यप्रसिद्धिरनिपेच्या स्यात् । द्वितीयविकल्पे तु परस्परविविक्तज्ञानपरमाणुप्रति२० भासँस्यासंवेदनात्सकलशून्यतानुषङ्गः।
अथ तद्हणोपायासम्भवाद्रूपादिमतो द्रव्यस्याभावः, तन्न 'यमहमद्राक्षं तमेतर्हि स्पृशामि' इत्यनुसन्धानप्रत्ययस्य तद्राहिणः सद्भावात् । न च द्वाभ्यामिन्द्रियाभ्यां रूपस्पशाधारैकार्थग्रहणं विना प्रतिसन्धानं न्यायम्। रूपस्पर्शयोश्च प्रतिनियतेन्द्रियग्राह्य२५त्वादेतन्न सम्भवति । चेतनत्वाच्चात्मनः स्मरणादिपर्यायसहायस्य
१ एकस्मिन्वस्तुनि । २ अवयविनः। ३ रूपादीनाम् । ४ द्रव्यरूपतया । ५ साहित्ये। ६ अवयविनः। ७ इतरो=निर्विकल्पकः पूर्वसविकल्पकादुपादानभूतानिर्विकल्पकात्सहकारिभूतात्सविकल्पकमुत्पद्यते तदा तदुभयोराकारं बिभ्रति । ८ इदमेव सम्भावयति । ९ तर्हि रूपादयो द्रव्यरहिता बुद्धी स्वरूपसमर्पका भविष्यन्तीत्याह । १० द्रव्यरहितत्वादिति प्रथमान्तोपि हेतुज्ञेयः । ११ मूल्यं स्वरूपसमर्पणलक्षणमदत्त्वा क्रयिण इति भावः। १२ सौगतमते चित्रैकशानं स्वीकृतम् । १३ एकस्मिन्वस्तुनि । १४ लोके। १५ ज्ञेयग्राहकज्ञानाभावात् ज्ञेयस्याप्यभावात् । १६ अनुसन्धानं= प्रत्यभिज्ञानम् । १७ चक्षुःस्पर्शनाभ्याम् । १८ अनेन प्रत्यक्षमपि तद्ब्राहकमुक्तम् , व्रतश्चात्मसिद्धिरिति । १९ वैशेषिकमतनिरासार्थम् । २० बौद्धमतनिरासार्धम् ।