________________
सू० ४.१०] अवयविस्वरूपविचारः अर्वापरभागावयवव्यापित्वग्रहणमन्यवयविद्रव्यस्योपपन्नम् । म. साधितं चानुसन्धानस्य सविश्यत्वमित्यलमतिप्रसङ्गेन । तन्न परेषां चतुःसंख्यं द्रव्यं यथोपवर्णितस्वरूपं घटते, सर्वथा नित्यस्वभावाणूनामनर्थक्रियाकारित्वेनासलवतः तदारब्धव्यणुकाद्यवयविद्रव्यस्याप्यसम्भवात् । न हि कारणासादे कार्य प्रभव-५ त्यतिप्रलङ्गात् । वायवेश्योन्तरल्यावयविलो प्राहकप्रमाणास्वरवादालत्वम् ।
जातिभेदेन पृथिव्यादिद्रव्याणां भेदोपवर्णनं चानुपपन्नम्। स्वरूपासिद्धौ शशशृङ्गवद्भदोपवर्णनासम्भवात् । जातिभेदेनात्यन्तं तेषां भेदे चान्योन्यमुपादानोपादेयभावो न स्यात् । येषां हि १० जातिभेदेनात्यन्तिको भेदो न तेषां तद्भावः यथात्मपृथिव्यादीनाम् , तथा तद्भेदश्च पृथिव्यादिद्रव्याणामिति । तन्तुपटाद्युपादानोपादेयभावेन व्यभिचारपरिहारार्थम् आत्यन्तिकविशेषणम् । न हि तत्रात्यन्तिकस्तद्भेदः, पृथिवीत्वादिसामान्यस्याभिन्नस्यापीष्टेः। नन्वेवं द्रव्यत्वादिना पृथिव्यादीनामप्यभेदात्तद्भावोस्तु: १५ तन्न; आत्मपृथिव्यादीनामप्येवं तद्भेदाभावादुपादानोपादेयभावः स्यात्, तथा चात्माईतप्रसङ्गाकुतः प्रथिव्यादिभेदः स्यात? तन्नात्यन्तिकभेदे पृथिव्यादीनां तद्भावो घटते । अस्ति चासौचन्द्रकान्ताजलस्य, जलान्मुक्ताफलादेः, काष्ठादनलस्य, व्यजनादेश्वानिलस्योत्पत्तिप्रतीतेः। चन्द्रकान्ताद्यन्तर्भूताजलादेरेव द्रव्या-२० जलाधुत्पत्तिः, इत्यप्यनुपपन्नम्। तत्र तत्सद्भावावेदकप्रमाणाभावात् । तथापि चन्द्रकान्तादौ जलाद्यभ्युपगमे मृत्पिण्डादौ घटाद्यभ्युपगमोपि कर्तव्य इति सांख्यदर्शन व स्यात् । ततो मृत्पिण्डादौ घटादिवञ्चन्द्रकान्तादौ जलादेरप्यप्रतीतितोऽभावात्, आत्यन्तिकभेदे चोपादानोपादेयभावासम्भवात् , 'पर्यायभेदेना-२५ न्योन्यं पृथिव्यादीनां भेदो रूपरसगन्धस्पर्शात्मकपुद्गलद्रव्यरूपतया चाभेदः' इत्यनवद्यम् । रूंपादिसमन्वयश्च गुणपदार्थ
१ रूपस्पर्श । २ प्रत्यभिज्ञानसमर्थनसमये। ३ अनुसन्धानसमर्थनेन। ४ वैशेषिकाणाम् । ५ सर्वथा नित्यानित्यतया। ६ पृथिवीत्वादिना। ७ ययोजातिमेदेन मेदो न तयोरुपादानोपादेयभावोस्तीत्युक्तं ततस्तन्तुपटादौ व्यभिचारो भवति । ८ तन्तुत्वपटत्वजातिभेदे सत्यपि । ९ तन्तुपटादिषु। १० अयमात्मेमे पृथिन्यादय इति । ११ मा भववित्युक्ते सत्याह । १२ पृथिवीरूपात्। १३ सर्व सर्वत्र विद्यते इति वचनात् । १४ पृथिव्यामेव गन्धोऽस्वेव रस इति वचनात्कथं चतुर्णामविशेषेण रूपायात्मकत्वमित्याह । १५ समन्वयः सम्बन्धः ।