SearchBrowseAboutContactDonate
Page Preview
Page 706
Loading...
Download File
Download File
Page Text
________________ प्रमेयकमलमार्तण्डे [४. विषयपरि० धनं वा? स्वतन्त्रं चेत् धर्मिसाध्यपदयोव्याघातः, यथा-'इदं च नास्ति च इति । हेतोराश्रयासिद्धत्वञ्च अवयविनोऽप्रसिद्धः। न च वृल्या सात्वं व्याप्तम् ; समवायवृत्त्यनभ्युपगमेपि भवता रूपादेः सत्त्वाभ्युपगमात् । एकदेशेन सर्वात्मना वावयविनो ५वृत्तिप्रतिषेधे विशेषप्रतिषेधस्य शेषाभ्यनुज्ञाविषयत्वात् प्रकारान्तरेण वृत्तिरभ्युपगता स्यात् , अन्यथी 'न वर्तते' इत्येवाभिधातव्यम् । वृत्तिश्च समवायः, तस्य सर्वत्रैकत्वानिरवयवत्वाच्च कात्स्न्यैकदेशशब्दाविषयत्वम् । अथ प्रसङ्गसाधनं परस्येष्ट्याऽनि टापादनात् । ननु परेष्टिः प्रमाणम् , अप्रमाणं वा ? यदि प्रमाणम् ; १० तर्हि तयैव वाध्यमानत्वादनुन्थानं विपरीतानुमानस्य । न चानेनैवास्या वाधा; तामन्तरेणास्याऽपक्षधर्मत्वात् । अथाप्रमाणम् ; तर्हि प्रमाणं विना प्रमेयस्यासिद्धिरित्यभिधातव्यम् , किमनुमानो. पन्यासेनास्याऽपक्षधर्मतयाऽप्रमाणत्वात् ? इत्यप्यपरीक्षिताभिधानम् ; यतः प्रसङ्गसाधनमेवेदम् । तच्च १५'साध्यसाधनयोाप्यव्यापकभावसिद्धौ व्याप्याभ्युपगमो व्याप. काभ्युपगमनान्तरीकः, व्यापकाभावो वा व्याप्याभावाविनाभावी' इत्येतत्प्रदर्शनॆफलम् । [व्याप्य ]व्यापकभावसिद्धिश्चात्र लोकप्रसिद्धैव । लोको हि कस्यचिवचित्सर्वात्मना वृत्तिमभ्युप गच्छति यथा बिल्वादेः कुण्डादौ, कस्यचित्त्वेकदेशेन यथानेक. २० पीठादिशयितस्य चैत्रादेः । यत्रं च प्रकारद्वयं व्यावृत्तं तत्र वृत्ते १ परेष्टयानिष्टापादनं यत्र तत्प्रसङ्गसाधनम् । २ अवयवी धर्मी, नास्तीति साध्यपदम्। ३ स्वमतापेक्षया वक्ति वैशेषिकः । लोकप्रसिद्धोऽस्ति नास्तीति प्रतिपाद्यते जैनैरिति विरोध इति भावः। परस्पर विरोध इत्यर्थः । ४ वादिनो जैनस्यापेक्षयाऽवयविनो धर्मिणः । ५ समवायवृत्त्यावयवेष्ववयवी वर्तते यतः। ६ जैनेन । ७ तादाम्येन, न तु समवायेनेति भावः। ८ किञ्च । ९ शेषाभ्यनुज्ञा सामान्याभ्युपगमः । १० समवायेन । ११ विशेषप्रतिषेधस्य शेषाभ्यनुशाविषयत्वाभावे । १२ न तु सर्वात्मनैकदेशेनेत्यभिधातव्यम् । १३ अवयवेष्ववयविनः। १४ अवयवेषु । १५ अवयवे. ध्ववयविनः समवायः काख्येनैकदेशेन वेति शब्दः। १६ प्रतिवादिनो वैशेषिकस्य । १७ पराभ्युपगमेन परस्यैवानिष्टापादनात् । १८ अवयवेभ्यो भिन्नोऽवयवी सर्वथा विद्यते इति परेष्टिः। १९ अवयवी नास्ति वृत्ति विकल्पाद्यनुपपत्तरिति । २० अवयवी नास्ति वृत्तिविकल्पाद्यनुपपत्तेरित्यस्य । २१ विपरीतानुमानेन परेष्टेः पराभ्युपगमस्य यदा बाधा स्यात्तदा परेष्टिविषयस्यावयविनोऽसत्वात्तद्धर्मत्वं हेतोर्नास्तीति भावः । २२ अवयविरूपस्य । २३ जैनेन। २४ एवकारः स्वतन्त्रसाधननिरासार्थः । २५ कचिदृष्टान्ते। २६ अविनाभूतः। २७ धर्मिणि । २८ प्रसङ्गसाधनं भवति । २९ कात्सर्यैकदेशवृत्तित्वयोः । ३० अवयवेषु। ३१ अवयवेष्ववयविनः सर्वात्मनैकदेशेन वा वृत्तेः ।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy