SearchBrowseAboutContactDonate
Page Preview
Page 705
Loading...
Download File
Download File
Page Text
________________ सू० ४/१० ] अवयविस्वरूपविचारः ५४३ न स्यात् । अथ स्वभावान्तरेणासाववयवान्तरे वर्त्ततेः तदास निरंशता व्याघातः, कथञ्चिदनेकत्वप्रसङ्गश्च स्वभावभेदात्मकत्वाइस्तुभेदस्य । ते च स्वभावा यद्यतोऽर्थान्तरभूताः तदा तेष्वप्यसौ स्वभावान्तरेण वत्तैतेत्यनवस्था | अर्थानर्थान्तरभूताः तवयवैः किमपराद्धं येनेते तथा नेप्यन्ते ? तदिष्ठ वावयविनोऽने-५ कैत्वमनित्यत्वं च स्वशिरताडं कुर्वतोप्याचा यदि चावयव्यविभागः स्यात्तदेकदेशस्यावरणे रागे च अखिलस्यावरणं रागश्चानुषज्यते, रक्तारक्तयोरावृतानावृतयोचावयवि रूपयोरेकत्वेनाभ्युपगमात् । न चैवं प्रतीतिः, प्रत्यक्ष विरोधात् । न चान्योन्यं विरुद्धधर्माध्यासेप्येकं युक्तम्, अत एव, अनुमान - १० विरोधाच्च । तथा हि-यद्विरुद्धधर्माध्यासितं तन्नैकम् यथा कुटकुड्याद्युपलभ्यानुपलभ्यस्वभावम्, आवृतानावृतादिस्वरूपेण विरुद्धधर्माध्यासितं चावयविस्वरूपमिति । तथाप्येकत्वे विश्वस्यैकद्रव्यत्वानुषङ्गः । ननु वस्त्रादे रागः कुङ्कुमादिद्रव्येण संयोगः, स चाव्याप्यवृत्ति- १५ स्तत्कथमेकत्र रागे सर्वत्र राग एकदेशावरणे सर्वस्यावरणम् ? तद्व्यसारम् ; यतो यदि पटादि निरंशमेकं द्रव्यम्, तदा कुङ्कुमादिना किं तत्राव्यातं येनाऽव्याप्यवृत्तिः संयोगो भवेत् ? अव्याप्तौ वा भेदप्रसङ्गो व्याप्ताव्याप्तस्वरूपयोर्विरुद्धधर्माध्यासेनैकत्वायोगात् । किञ्च, अस्याव्याप्यवृत्तित्वं सर्वद्रव्याव्यापकत्वम्, एकदेश- २० वृत्तित्वं वा ? न तावत्प्रथमः पक्षः द्रव्यस्यैकस्य सर्वशब्दविषयत्वानभ्युपगमत् । अनेकत्र हि सर्वशब्दप्रवृत्तिरिष्टा । नापि द्वितीयः; तस्यैकदेशासम्भवात्, अन्यथा सावयवत्वप्रसङ्गेत् । ततो नास्त्यवयवी वृत्तिविकल्पाद्यनुपपत्तेरिति । १५ ननु चावयविनो निरासे यत्साधनं तत्किं स्वतन्त्रम्, प्रसङ्गसा- २५ १ किंतु सांशत्वप्रसङ्गः । २ अवयविनः सकाशादभिन्नाः । ३ तन्तुलक्षणैः । ४ अवयवी धर्म्यऽनेको भवतीति साध्यो धर्मोऽवयवेभ्यो ऽनर्थान्तरत्वात्तत्स्वरूपवत् । अवयवी धर्म्यऽनित्यो भवति अवयवेभ्योऽनर्थान्तरत्वात्तत्स्वरूपवत् । अवयवानां बहुत्वादनित्यत्वाच्चेति उभयत्र हेतुः । ५ वैशेषिकस्य । ६ निरंशम् । ७ तस्मान्नैकम् । ८ एकदेशे । ९ अव्याप्यवृत्तिर्गुणः संयोगलक्षण इति वचनात् । ११ देशे । १२ देशस्य । १३ परेण । १४ तथा च निरंशत्वव्याघातः स्यात् । १५ शशविषाणवत् । १६ पक्षहेतुदृष्टान्तादयो यत्र विद्यन्ते तत्स्वतन्त्रम् । १० एकदेशे ।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy