________________
५४२
प्रमेचकमलमार्तण्डे [४. विषयपरि० ननु चामिागदर्शने सत्युत्तरकालं परमागदर्शनानन्तरस्मरणसहकारीन्द्रियज नितं स एवायम्' इति प्रत्यभिज्ञाज्ञानमध्यक्षमवयविनः पूर्वापरावयवव्याप्तिग्राहकम्, तदप्यसाम्प्रतम्, प्रत्यभिशाज्ञानेऽध्यक्षरूपत्वस्यैवासिद्धः । अक्षाश्रितं विशदस्वभावं हि ५प्रत्यक्षम्, न चास्यैतल्लक्षणमस्तीति । अक्षाश्रितत्वे चास्याखिला. वयवव्याप्यवयविस्वरूपग्राहकत्वासम्भवः, अक्षाणां सकलावयवग्रहणे व्यापारासम्भवात् । न च सरणसहायस्थापीन्द्रियस्याविषये व्यापारः सम्भवति । यद्यस्याविषयो न तत्तत्र स्मरणसहा
यमपि प्रवर्त्तते यथा परिमलस्मरणसहायमपि लोचनं गन्धे, १० अविषयश्च व्यवहितोऽक्षाणां प्रभागभाव्यवयवसम्वन्धित्वलक्षणोऽवयविनः स्वभाव इति ।
ने चानेकावयवव्यापित्वमेकस्वभावस्यावयविनो घटते; तथा हि-यन्निरंशैकस्वभावं द्रव्यं तन्न सकृदनेकद्रव्याश्रितम् यथा परमाणु, निरंशैकस्वभावं चावयविद्रव्यमिति । यद्वा, यदने द्रव्यं १५ तन्न सकृन्निरंशैकद्रव्यान्वितम् यथा कुटकुड्यादि, अनेकद्रव्याणि चावयवा इति ।
अस्तु वानेकत्रावयविनो वृत्तिः, तथाप्यस्यासौ सर्वात्मना, एकदेशेन वा स्यात् ? यदि सर्वात्मना प्रत्येकमवयवेष्ववयवी वर्तेत; तदा यावन्तोऽवयवास्तावन्त एवावयविनः स्युः, तथा २० चानेककुण्डादिव्यवस्थितविल्वादिवदनेकावयव्युपलम्भानुषङ्गः।
अथैकदेशेन; अत्राप्यस्यानेकत्र वृत्तिः किमेकावयवक्रोडीकृतेन स्वभावेन, स्वभावान्तरेण वा स्यात् ? तत्राद्यविकल्पोऽयुक्तः, तस्य तेनैवावयवेन क्रोडीकृतत्वेनान्यत्र वृत्त्ययोगात् । प्रयोगः-यदेकक्रोडीकृतं वस्तुखरूपं न तदेवान्यत्र वर्त्तते यथैकभाजनक्रोडी२५ कृतमाघ्रादि न तदेव भाजनान्तरमध्यमध्यास्ते, एकावयवक्रोडीकृतं चावयविखरूपमिति । वृत्तौ वान्यत्र अवयवे वृत्त्यनुपपत्तिरपरखभावाभावात् । एकावयवसम्बद्धखभावस्याऽतद्देशावयवान्तरसम्बन्धाभ्युपगमे च तदैवयवानामेकदेशतापंत्तिः, एकदेशतायां चैकात्म्यमविभक्तरूपत्वात् । विभक्तरूपावस्थितौ चैकदेशत्वं
१ स्मरण हि पूर्वभागस्य । २ तदविषयत्वात्। ३ परपरिकल्पितमवयविनः स्वरूपमऽवयवप्रधानतया निराकुर्वन्नाह । ४ एकस्वभावत्वं च नित्यनिरंशैकखभाव. त्वात् । ५ अवयवान्तरे। ६ विवक्षितावयवे। ७ तेषां विवक्षिताविवक्षितानाम् । ८.विवादापना अवयवा एकदेशत्वमाजो भवन्त्येकस्वभावेनावयविना व्याप्यत्वादेकावयववत् । ९ अवयवानाम्। १० अविभक्तरूपत्वमसिद्धमित्युक्ते सत्याह ।