________________
५४०
प्रमेयकसलमार्तण्डे [४. विषयपरि० कत्वं केवाचिस्यात्, इत्यप्यनुपपन्नम्। तेषामपिप्रवेणीभेद पूर्वकत्वेन प्रतीत्या स्कन्धभेदपूर्वकत्वसिद्धेः। 'वलवत्पुरुषप्रेरित मुद्धराद्यभिघातादक्यवक्रियोत्पत्तेः अवयव विभागात्संयोगविना.
शाद्विनाशार्थानाम्' इत्यादि विनाशोत्पादप्रक्रियोद्धोषणं तु प्रागेव ५ कृतोत्तरम् । ततो नित्यैकत्वस्वभावाणूनां जनकत्वासम्भवात्तदारब्धं तु द्यणुकाद्यवयविद्रव्यमनित्यमित्यप्ययुक्तमुक्तम्।
तेन्त्वाद्यवयवेभ्यो भिन्नस्य च पटाद्यवयविद्रव्यस्योपलब्धिलक्षणप्राप्तस्या पलम्भेनासत्त्वात् । न चास्योपलब्धिलक्षणप्राप्तत्व
मसिद्धम्; "महत्यनेकद्रव्यत्वाद्रूपविशेषांच रूपोपलब्धिः" १० [वैशे० सू० ४।३६] इत्यभ्युपगमात् । न च समानदेशत्वाद्वय
विनोऽवयवेभ्यो भेदेनानुपलब्धिः; वातातपादिभी रूपरसादिभिश्वानेकान्तात् , तेषां समानदेशत्वेपि भेदेनोपलम्भसम्भवात् ।
किञ्च, अवयवावयविनोः शास्त्रीयदेशापेक्षया समानदेशत्वम् , लौकिकदेशापेक्षया वा? प्रथमपक्षेऽसिद्धो हेतुः, पटावय१५विनो ह्यन्ये एवारम्भकास्तन्त्वादयो देशास्तेषां चान्ये भवद्भिर
भ्युपगम्यन्ते । द्वितीयपक्षेप्यनेकान्तः; लोके हि समानदेशत्वमेकभाजनवृत्तिलक्षणं भेदेनार्थानामुपलम्भेप्युपलब्धम् , यथा कुण्डे चद्रादीनाम् ।
किञ्च, कतिपयावयवप्रतिभासे सत्यऽवयविनः प्रतिभासः, २० निखिलावयवप्रतिमासे वा? तत्राद्यविकल्पोऽयुक्तः, जलनिम
नमहाकायगजादेरुपरितनकतिपयावयवप्रतिभासेप्यखिलावयवव्यापिनो गजाधवयविनोऽप्रतिभासनात् । नापि द्वितीयविकल्पो युक्तः, मध्यपरभागवतिसकलावयवप्रतिभासासम्भवेनावयवि
नोऽप्रतिभासप्रसङ्गात् । भूयोऽवयवग्रहणे सत्यवयविनो ग्रहण२५मित्यप्ययुक्तम् । यतोऽर्वाग्भागभाव्यवयवग्राहिणा प्रत्यक्षेण परभागभाव्यवयवाग्रहणान्न तेन तद्व्याप्तिरवयविनो ग्रहीतुं शक्या,
१ स्कन्धभेदपूर्वकत्वेऽस्कन्धभेदपूर्वकत्वे च तत्त्वादिति हेतोर्वर्तनात् । २ घटविनाशपूर्वककपालवदिति दृष्टान्तं साध्यसाधन विकलं दर्शयन्नाह परः। ३ एवं प्रवेणीरूपस्यार्थस्य विनाशो ज्ञेयः, तन्तवस्तु स्वारम्भकावयवेभ्यः समुत्पद्यन्ते, ततः प्रवेणीभेदपूर्वकत्वं पटपूर्वकालभाविनामपि तन्तूनां नास्तीति भावः । ४ उक्तन्यायात् । ५ योगपरिकल्पितं स्थूलावयविद्रव्यं निराकुर्वन्नाह जैनः। ६ सर्वथा । ७ भेदेन । ८ विशेषणम् । ९ परमाणुनाऽव्यभिचारार्थमेतत् । १० आकाशेन व्यभिचारपरिहारार्थ रूपविशेष इति । ११ भेदे सत्यपि। १२ अम्भःक्षीरवत्। १३ पटस्य । १४ अन्यथा समानदेशत्वाद्भेदेनानुपलब्धियदि तहि। १५ कथम् ? तथा हि । १६ प्रवेणिकासम्बन्धिनोंशाः । १७ वैशेषिकैः । १८ सर्वथा तयोर्भेदात् । १९ बडु ।