________________
५३८
प्रमेयकमलमार्तण्डे [४. विषयपरि० समवेतरूपाधारस्ते पटोत्पादकतन्तुरूपादि च। शेषं तृत्पादक निमित्तकारणम् , यथाऽदृष्टाकाशादिकम् । तत्र संयोगस्याऽपेक्षवीर्यस्यामावादविकलकारणत्वमसिद्धम् । तदप्यसास्प्रतम् संयो. गादिनाऽनाधेयातिशयत्वेनाऽणूनां तदपेक्षाया अयोगात्। ५ अथ संयोग एवामीषामतिशयः; स किं नित्यः, अनित्यो वा? नित्यश्चेत्; सर्वदा कार्योत्पत्तिः स्यात् । अनित्यश्चेत् । तदुत्पत्ती कोऽतिर्शयः स्यात्संयोगः, क्रिया वा? संयोगश्चेतिक स एव, संयोगान्तरं वा? न तावत्स एव; अस्याद्याप्यसिद्धः, स्वोत्पत्तौ
खस्यैव व्यापारविरोधाच! नापि संयोगान्तरम्। तस्यानभ्युपग१०मात् । अभ्युपगमे वा तदुत्पत्तावप्यापरसंयोगातिशयकल्पनायामनवस्था। नापि क्रियातिशयः, तदुत्पत्तावपि पूर्वोक्तदोषानुषङ्गात्।
किञ्च, अदृष्टापेक्षादात्माणुसंयोगात्परमाणुषु क्रियोत्पद्यते इत्यभ्युपगमात् आत्मपरमाणुसंयोगोत्पत्तावप्यपरोतिशयो वाच्यस्तत्र च तदेव दूषणम् । १५ किञ्च, असौ संयोगो घ्यणुकादिनिर्वर्तकः किं परमावा
द्याश्रितः, तदन्याश्रितः, अनाश्रितो वा? प्रथमपक्षे तेंदुत्पतीवाश्रय उत्पद्यते, न वा? यद्युत्पद्यते; तदाणूनामपि कार्यतानुषङ्गः । अथ नोत्पद्यते; तर्हि संयोगस्तदौश्रितो न स्यात्,
सैमवायप्रतिषेधात्, तेषां च तं प्रत्यकारकत्वात् । तदकार२० कत्वं चाऽनतिशयत्वात् । अनतिशयानामपि कार्यजनकत्वे सर्वदा कार्यजनकत्वप्रसङ्गोऽविशेषात् । अतिशयान्तरकल्पने च अनवस्था-तदुत्पत्तावप्यपरातिशयान्तरपरिकल्पनात् । तत
१ आदिना कुविन्दादि । २ कारणत्रयमध्ये। ३ द्वथणुकादिकार्योत्पादने । ४ परमाणुभिः। ५ परमाणूनां परमाणुभिः सह संयोगः। ६ नित्यत्वात् । ७ सर्वदा नित्यसंयोगलक्षणातिशयसद्भावात् । ८ कारणम् । ९ परमाण्वोः । १० परमायोः। ११ स्वयमनुत्पन्नस्य स्वात्मनि व्यापारः कथमिति विरोधः । १२ परेण । १३ व्यणुकादीनि कार्याण्यात्मनोऽदृष्टवशाज्जायन्ते आत्मनो व्यापकत्वादिति हेतोः । १४ घणुकादिकार्योत्पादकलक्षणा । १५ परेण । १६ अनवस्थालक्षणम् । १७ ततोऽ. न्यत् अदृष्टाकाशादि निमित्तकारणम् । १८ तस्य संयोगस्य । १९ व्यणुकोत्पादकः संयोगः परमाण्वाश्रितः, त्र्यणुकोत्पादकसंयोगो द्वथणुकाश्रितः, स्कन्धोत्पादकः संयोगरूयणुकाश्रित इति । २० परमाण्वादिः। २१ उत्पद्यमानत्वाद्धटवत् । २२ तस्य परमाणोः । २३ समवायाद्भविष्यतीत्युक्ते सत्याह । २४ अग्रे । २५ कार्यकारणभावसम्बन्धेन तदाश्रितो भविष्यतीत्युक्ते सत्याहाचार्यः। २६ संयोगजनकस्वभावातिशयाभावात् । २७ अनतिशयत्वस्य । २८ संयोगाश्रयस्यानुत्पद्यमानत्वेन संयोगस्तदाश्रितो
न स्थाधतः।