SearchBrowseAboutContactDonate
Page Preview
Page 699
Loading...
Download File
Download File
Page Text
________________ सू० ४।१०] परमाणुरूपनित्यद्रव्यविचारः ५३७ ननु चानुवृत्तव्यावृत्तखरूपयोः परस्परं विरोधात्कथं तदात्मकत्वमात्मनो युक्तम् ? इत्यप्यसत् ; प्रमाणप्रतिपन्ने वस्तुखरूपे विरोधानवकाशात् । न खलु सर्पस्य कुण्डलेतरावस्थापेक्षया अङ्गुल्यादेर्वा सङ्कोचितेतरस्वभावापेक्षया व्यावृत्त्यनुगमात्मकत्वं प्रत्यक्षप्रतिपन्नं विरोधमध्यास्ते। ननु सुखाद्यरस्थानामात्ननोऽत्यन्त भेदात्तब्यावृत्तावप्यात्मनः किमायातं येनास्यापि व्यावृत्त्यात्मकत्वं त्यात् ? इत्यप्पेशलम् : सुखाद्यात्मनोरत्यन्तभेदस्य प्रथमपरिच्छेदे प्रतिविहितत्वात् । ननु चाकारवैलक्षण्येप्यात्मसुखादीनामनानात्वे अन्यत्राप्यन्यतोऽन्येस्थान्यत्वं न स्यात् । तदप्यविचारितरमणीयम्; तद्वत्तादात्म्येना-१० न्यत्रान्यस्य प्रमाणतोऽप्रतीतेः। प्रतीतौ तु भवत्येवाकारनानात्वेप्यनानात्वम् प्रत्यभिज्ञाज्ञानवत्, सामान्यविशेष॑वत्, संशयज्ञानवत्, मेचकज्ञानवद्वेति ।। यञ्चोक्तम्-'द्रव्यादयः षडेव पदार्थाः प्रमाणप्रमेयाः' इत्यादि। तदप्युक्तिमात्रम्। द्रव्यादिपदार्थपटकस्य विचारासहत्वात् ; १५ तथाहि-यत्तावञ्चतुःसंख्यं पृथिव्यादिनित्यानित्यविकल्पाविभेदमित्युक्तम् । तद्युक्तम् । एकान्त नित्ये क्रमयोगपद्याभ्यामर्थक्रियाविरोधात् । तल्लक्षणसत्त्वस्यातो व्यावृत्त्याऽसवप्रसङ्गात् । यदि हि परमाणवो व्यणुकादिकार्यद्रव्यजननैकस्वभावाः; तर्हि तत्प्रभवकार्याणां सकृदेवोत्पत्तिप्रसङ्गोऽविकलकारणत्वात् ।२० प्रयोगः-येऽविकलकारणास्ते सकृदेवोत्पद्यन्ते यथा समानसमयोत्पादा बहवोऽङ्कराः, अविकलकारणाश्चाणकार्यत्वेनाभिमता भावा इति । तथाभूतानामप्यनुत्पत्तौ सर्वदानुत्पत्तिप्रसक्तिविशेषाभावात्। ननु समवाय्यऽसमवायिनिमित्तभेदान्त्रिविधं कारणम् । यत्र हि २५ कार्य समवैति तत्समवायिकारणम् , यथा घणुकस्याणुद्वयम् । यञ्च कार्यकार्थसमवेतं कार्यकारणैकार्थसमवेतं वा कार्यमुत्पादयति तदसमवायिकारणम् , यथा पटारम्भे तन्तुसंयोगः, पट १ घटे। २ पटस्य । ३ तादात्म्ये । ४ पूर्वोत्तरपर्यायशानद्वयाकारवत् । ५ घटादौ । ६ पटादेः। ७ यथा गोत्वं सामान्यमश्वत्वसामान्यापेक्षाया विशेषः । ८ एकान्तनित्यस्य । ९ एकान्तनित्याः । १० अविकलकारणत्वस्य । ११ साधनमसिद्धमिति परः सम्भावयति । १२ पृथग्रूपत्वेनोत्पद्यते। १३ कार्य-पटः तेनैकार्थे तन्तुलक्षणे समवेतं पटम् । १४ कार्यकारणं पटगतरूपादि (देः कार्यस्य कारणं पटः) तेन सह एकार्थसमवेतं तन्तुगतरूपम् ।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy