SearchBrowseAboutContactDonate
Page Preview
Page 698
Loading...
Download File
Download File
Page Text
________________ ५३६ प्रमेयकमलमार्तण्डे [४. विषयपरि० नाप्युभयदोषः; चौरपार]दारिकाभ्यामचौरपारदारिकवत् जैनाभ्युपगतवस्तुनो जात्यन्तरत्वात् । न खलु भेदाभेदयोः सत्त्वासस्वयोर्वाऽन्योन्यनिरपेक्षयोरेकत्वं जैनैरभ्युपगम्यते येनायं दोषः, तत्लापेक्षयोरेव तदभ्युपगमात् , तथाप्रतीतेश्च । १५ नापि सङ्करव्यतिकरौ; स्वरूपेणैवार्थे तयोः प्रतीतेः। नाप्यनवस्था; 'धर्मिणो हनेकरूपत्वं न धर्माणां कथञ्चन' इति, वस्तुनो ह्यभेदो धर्येव, भेदस्तु धर्मा एव,तत्कथमनवस्था? __ अभावदोषस्तु दूरोत्सारित एव; अशेषप्राणिनामनेकान्तात्म कार्थस्यानुभवसम्भवात् । २० ननु शरीरेन्द्रियबुद्धिव्यतिरिक्तात्मद्रव्यस्येच्छादिगुणाश्रयस्य नित्यैकरूपत्वात्कथं सर्वस्यानेकान्तात्मकत्वम् ? न च नित्यैकरूपत्वे कर्तृत्वभोक्तत्वजन्ममरणजीवनहिंसकत्वादिव्यपदेशाभावः, ज्ञानचिकीर्षाप्रयत्नानां समवायो हि कर्तृत्वम् , सुखादि संवित्समवायस्तु भौतृत्वम्, अपूर्वैः शरीरेन्द्रियबुध्यादिभि१५ श्वाभिसम्बन्धो जन्म, प्राणात्तैस्तैस्तु वियोगो मरणम् , जीवनं तु सदेहस्यात्मनो धर्माधर्मापेक्षो मनसा सम्वन्धः, हिंसकत्वं च शरीरचक्षुरादीनां वधान पुनरात्मनो विनाशात्। तथा च सूत्रम्"कार्याश्रयकर्तृवधाद्धिंसा" [ न्यायसू० ३।१।६] इति । कार्या श्रयः शरीरं सुखादेः कार्याश्रयत्वात् । कर्तृणीन्द्रियाणि विषयो२० पलब्धेः कर्तृत्वादिति। तदप्यसमीक्षिताभिधानम् ; सर्वथाऽपरित्यक्तपूर्वरूपत्वेनास्याकाशकुशेशयवत् ज्ञानादिसमवायस्यैवासम्भवात् कथं तदपेक्षया कर्तृत्वादिखरूपसम्भवः ? पूर्वरूपपरित्यागे वा कथं नानेकान्तात्मकत्वम् ; व्यावृत्त्यनुगमात्मकस्यात्मनः स्वसंवेदनप्रत्यक्षतः २५ प्रसिद्धः । व्यावृत्तिः खलु सुखदुःखादिवरूपापेक्षया आत्मनः अनुगमश्च चैतन्यद्रव्यत्वसत्त्वादिखरूपापेक्षयाँ । तदात्मकत्वं चाध्यक्षत एव प्रसिद्धम् । १ आत्मादिवस्तुनः। २ द्रव्यं पर्यायमपेक्ष्य वर्तते पर्यायो द्रव्यमपेक्ष्य वर्तते । ३ परस्परापेक्षया । ४ भेचकरत्नादौ । ५ धर्माणामपरधर्माऽसम्भवात् । ६ प्रत्यक्षादिप्रमाणतः। ७ येषां वादिनां शरीरमेवात्मा इन्द्रियाण्येवात्मा बुद्धिरेवात्मा वा तेषां मतनिरासार्थमिदं विशेषणम्। ८ आत्मना सह । ९ आदिना चिकीर्षाप्रयत्नादि । १० घटते। ११ आत्मनः। १२ व्यापित्वाव्यापित्वरूपे। १३ घटपटादौ । १४ पर्यायापेक्षाया व्यावृत्त्यात्मकस्य चैतन्यापेक्षयानुगमात्मकस्य । १५ आकारवैलक्षण्याविशेषात् । १६ आत्मसुखादिवत् ।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy