________________
सू० ४.१०] अर्थस्य सामान्यविशेषात्मकत्वम् ५३५ त्यांनी विशेषणं नान्यत् । न चैकत्र विरोधो नामास्य द्विष्ठत्वात् , अन्यथा सर्वत्र सर्वदा तत्प्रसङ्गः।
अथ विरुध्यमानत्वविरोधकत्वापेक्षया कर्मकर्तृस्थो विरोधः, विरोधसामान्यापेक्षयोभवविशेषणत्वादिष्टोभिधीयते । नन्वेवं रूपाइरदि विष्ठत्वापत्तिः किन्न स्यात् उत्सामान्यस्यापि द्विष्ठत्वा-५ विशेषात् ? विरोधस्यासावरूपत्वे सामान्यविशेषत्वाभावानुपपलिगुंगरूपत्वे गुणविशेषत्वाभावानुङ्गः ।
अथ षट्पदार्थव्यतिरिक्तत्वात् पदार्थविशेषो विरोधोऽनेकस्थो विरोध्यविरोधकप्रत्ययविशेषप्रसिद्धः समाधीयते; तदाप्यस्थालल्बद्धस्य द्रव्यादौ विशेषणत्वम् , सम्वद्धस्य वा? न तावदसम्ब-१० द्धस्य; अतिप्रसङ्गात् , दण्डादौ तथाऽप्रतीतेश्च । न खलु पुरुषेणासम्बद्धो दण्डत्तस्य विशेषणं प्रतीतो येनात्रापि तथाभावः। अथ सम्वद्धः; किं संयोगेन, समवायेन, विशेषणभावेन वा ? न ताव संयोगेन; अस्याद्रव्यत्वेन संयोगानाश्रयत्वात् । नापि समवायेन; अस्य द्रव्यगुणकर्मसामान्यविशेपव्यतिरिक्तत्वेनासमवायित्वात् ।१५ नापि विशेषणभावेन; लम्बन्धान्तरेणासम्बद्ध वस्तुनि विशेषणभावस्याप्यतस्भवात् , अन्यथा दण्डपुरुषादौ संयोगादिसस्वन्धामानषि ल स्यात् इत्यलं संयोगादिसस्वन्धवकल्पनाप्रयासेन । 'विरोध्यविरोधकप्रत्यय विशेषस्तु विशिष्टं वस्तुधर्ममेवालम्बते' इति वक्ष्यते समवायसम्बन्धनिराकरणप्रक्रमे । ततो विरोधस्य २० विचार्यमाणस्यायोगान्नानयोरसौ घटते ।
नापि वैयधिकरण्यम् ; निर्वाधवोधे भेदाभेदयोः सत्त्वासत्त्वयोर्वा एकाधारतया प्रतीयमानत्वात् ।
१ शीतद्रव्यस्योष्णद्रव्यस्य वा। २ उष्णद्रव्यं शीतद्रव्यं वा। ३ उष्णद्रव्ये शीतद्रव्ये वा। ४ तथा च घटस्य सद्रूपतावत् (सत्तासम्बन्धात्सद्रूपाणीति भावो वैशेषिकमते) रूपादिस्वभावतापि न स्यात् , न चैतद्युक्तं प्रतीतिविरोधात् । ५ विरुध्यमानः शीतः। ६ विरोधकः उष्णः । ७ विरोध्यविरोधकभावसम्बन्धापेक्षया । ८ नतु विशेषापेक्षया यतः कर्तृस्थो विरोधो हि कर्मणि नास्ति कर्मस्थः कर्तरि नास्तीत्यद्विष्ठो विशेषापेक्षयेति भावः। ९ विरोधप्रकारेण। १० भावानां विरोधकत्वापत्तिः। ११ विरोधस्याभावरूपत्वं मा भूद्गुणरूपत्वं स्यादित्युक्ते आहाचार्यः। १२ गुणा निर्गुणा इति वचनाच्छीतोष्णस्पर्शयोर्गुणरूपयोविरोधो गुणरूप इति विशेषणत्वमस्य न घटतेऽन्यथा । १३ सह्यो विन्ध्यं प्रति विशेषणं स्यादसम्बद्धत्वाविशेषात् । १४ असम्बद्ध विशेषणत्व. प्रकारेण । १५ असम्बद्धत्वप्रकारेण। १६ पञ्चसु पदार्थेषु समवायोस्ति यतः। १७ प्रत्ययो शानन् । १८ वस्तुनोऽव्यतिरिक्तमभावरूपं विरोधमवलम्बते न तु व्यतिरिक्तम् । १९ भेदाभेदयोः सत्त्वासत्त्वयोर्वा ।