SearchBrowseAboutContactDonate
Page Preview
Page 696
Loading...
Download File
Download File
Page Text
________________ प्रमेयकमलमार्तण्डे [४. विषयपरि० तेषां न विरुध्यते मातुलिङ्गद्रव्ये रूपादिवत् । धर्मधर्मिणोस्तु विरोधे धर्मिणि धर्माणां प्रतीतिरेव न स्यात्, न चैवम् , अवाधबोधाधिरूढप्रतिभासत्वात्तत्र तेषाम् । वध्यघातकभावोपि विरोधः फणिनकुलयोरिव वलवदवलवतोः प्रतीतः सत्त्वासत्त्वयोर्भेदाभेदयोर्वा नाशङ्कनीयः; तयोः समानवलत्वात् । अस्तु वा कश्चिद्विरोधः; तथाप्यसौ सर्वथा, कथञ्चिद्वा स्यात् ? न तावत्सर्वथा; शीतोष्णस्पर्शादीनामपि सत्त्वादिना विरोधासिद्धेः । एकाधारतया चैकस्मिन्नपि हि धूपदहनादिभाजने क्वचित्प्र देशे शीतस्पर्शः क्वचिञ्चोष्णस्पर्शः प्रतीयत एव । अथानयोः १० प्रदेशयोर्भेद एवेष्यते; अस्तु नामानयोर्भेदः, धूपदहनाद्यवयवि नस्तु न भेदः । न चास्य शीतोष्णस्पर्शाधारता नास्तीत्यभिधातव्यम् । प्रत्यक्षविरोधात्। तन्न सर्वथा विरोधः। कथञ्चिद्विरोधस्तु सर्वत्र समानः। किञ्च, आवेभ्योऽभिन्नः, भिन्नो वा विरोधः स्यात् ? न १५ तावत्तेभ्योऽभिन्नो विरोधो विरोधको युक्तः; स्वात्मभूतत्वात्तत्वरूपवत्, विपर्ययानुषङ्गो वा । अथ भिन्नः; तथापि न विरोधकः, अनात्मभूतत्वादर्थान्तरवत् । अथार्थान्तरभूतोपि विरोधो विरोधको भावानां विशेषणभूतत्वात् , न पुनर्भावान्तरं तस्य तद्विशेषणत्वाभावात्। तदप्यसमीचीनम् ; विरोधो हि २० तुच्छरूपोऽभावः, स यदि शीतोष्णद्रव्ययोर्विशेषणं तर्हि तयोरेंद शनापत्तिस्तत्सम्वद्धरूपत्वात् । असम्बद्धस्य च विशेषणत्वेऽतिप्रसङ्गात्। अन्यतरविशेषणत्वेप्येतदेव दूषणम् । तदेव च विरोधि स्याद्य १ जैनमते । २ प्रदीपादौ। ३ स्वपरप्रकाशादीनाम् । ४ सत्त्वादिरूपाव्यवच्छेदतः । ५ शीतस्पर्शः सन्नष्णस्पर्शः सन्नित्यादिना धर्मेण । ६ शीतोष्णस्पर्शादयो न विरुद्धा एकाधारतया प्रतीयमानत्वात् , यत्तथा प्रतीयते न तत्सर्वथा विरुद्धं यथा रूपरसादि, एकतुलायां नामोन्नामादिर्वा, एकाधारतया प्रतीयन्ते च धूपदहनादौ शीतोष्णस्पर्शादय इति । ७ परेण। ८ भावानामसाधारणस्वरूपप्रकारेण । ९ घटा. कारस्य पटेऽभावात् । १० घटपटादौ घटपटरूपादौ वा। ११ भावा अपि विरोधस्य विरोधकाः कुतो न भवेयुर्विरोधादमिन्नत्वाविशेषात् ?। १२ भावा विशेष्याविरोधो विशेषणमनयोभीवयोर्विरोध इति । १३ घटपटादिरूपः। १४ विवादापन्ने शीतोष्णद्रव्ये धर्मिणी न दृश्येते. इति साध्यो धर्मः, अभावसम्बद्धरूपत्वात् कच्चित्प्रदेशे घटवत् । १५ शीतोष्णद्रव्ययोर्मध्ये शीतद्रव्यस्योष्णद्रव्यस्य वा। १६ शीतोष्ण. द्रव्ययोर्मध्ये। १७ विरोधस्य । १८ अदर्शनापत्तिलक्षणम् । १९ द्वितीयम् ।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy