________________
सू० ४।१०] अर्थस्य सामान्यविशेषात्मकत्वम्
सर्वथा भाव एव स्वरूपम् ; स्वरूपेणेव पररूपेणापि भादप्रसङ्गात् । नाप्यभाव एव; पररूपेणेव स्वरूपेणाप्यभावप्रसङ्गात् ।
न च स्वरूपेण भाव एव पररूपेणाभावः, परात्मना चाभाव एव स्वरूपेण भावः तदपेक्षणीयनिमित्तभेदात्, खद्रव्यादिकं हि निमित्तमपेक्ष्य भावप्रत्ययं जनयत्यर्थः परद्रव्यादिकं त्वपे-५ क्ष्याऽभावप्रत्ययम् इति एकत्वद्वित्वादिसंख्यावदेव वस्तुनि भावाभावयोमदः । न होकन द्रव्ये द्रव्यान्तरमपेक्ष्य द्वित्वादिसंख्या प्रकाशमाना स्वात्ममात्रापेक्षकत्वसंख्यातो नान्या प्रती यते । नापि सोभयी तद्वतो भिन्नैव; अस्याऽसंख्येयत्वप्रसङ्गात् । संख्यासमवायात्तत्त्वम् । इत्यप्यसुन्दरम् कथञ्चित्तादात्म्यव्यति-१० रिक्तस्य समवायस्यासत्त्वप्रतिपादनात् । तत्सिद्धोऽपेक्षणीयमेदात्संख्यावत्सत्वासत्त्वयोमैदः । तथाभूतयोश्चानयोरेकवस्तुनि प्रतीयमानत्वात्कथं विरोधः द्रव्यपर्यायरूपत्वादिना भेदाभेदयो ? मिथ्येयं प्रतीतिः, इत्यप्यसङ्गतम् ; वाधकाभावात् । विरोधो वाधकः, इत्यप्ययुक्तम् । इतरेतराश्रयानुषनात्-सति१५ हि विरोधे तेनास्यावाध्यमानत्वान्मिथ्यात्वसिद्धिः, ततश्च तद्विरोधसिद्धिरिति ।
विरोधश्च अविकलकारणस्यैकल्य अवतो द्वितीयसन्निधानेऽ. भावादवसीयते । न च भेदसन्निधानेऽभेदस्याऽभेदसन्निधाने वा भेदस्याभावोऽनुभूयते।
किञ्च, अत्र विरोधः सहानवस्थानलक्षणः, परस्परपरिहारस्थितिखभावो वा, वध्यघातकरूपो वा स्यात् ? न तावत्सहा. नवस्थानलक्षणः; अन्योन्याव्यवच्छेदेनैकस्मिन्नाधारे भेदाभेदयोधर्मयोः सत्वासत्वयोर्वा प्रतिभासमानत्वात् । परस्परपरिहारस्थितिलक्षणस्तु विरोधः सहैकत्राम्रफलादौ रूपरसयोरिवानयोः२५ सम्भवतोरेव स्यान्न त्वसम्भवतोः सम्भवदसम्भवेतोर्वा ।
किञ्च, अयं विरोधो धर्मयोः, [धर्म धर्मिणो ? प्रथमपक्षे सिद्धसाधनम् । एतल्लक्षणत्वाद् धर्माणाम् । ऐकाधिकरण्यं तु
१ भावः अस्तित्वम् । २ तयोः=भावाभावयोः। ३ कथम् ? तथा हि । ४ स्वापेक्षया एकत्वं यथा तथा परापेक्षया द्वित्वं च । ५ विशेषः । ६ संख्येयत्वम् । ७ अग्रे। ८ भिन्नयोः। ९ सत्त्वासत्त्वयोः । १० शीतस्य । ११ जायमानस्य । १२ उष्ण । १३ ययोस्तथा प्रतिभासमानत्वं न तयोस्तथा विरोधो यथा रूपरसयोः, तथा प्रतिभासमानत्वं च भेदाभेदयोरिति । १४ विद्यमानयोः। १५ अस्मिन्विरोधे सति दोषो नास्तीत्यर्थः। १६ शशाश्वविषाणयोरिव । १७ बन्ध्याऽबन्ध्यास्तनन्धययोरिव ।
२०