SearchBrowseAboutContactDonate
Page Preview
Page 693
Loading...
Download File
Download File
Page Text
________________ सू० ४।१०] अर्थस्य सामान्यविशेपात्मकत्वम् यच्चोक्तम्-‘पटस्य भावः' इत्यभेदे' पष्ठी न प्राप्नोतीतिः तदप्यप्रयुक्तम् ; 'पण्णां पदार्थानामस्तित्वम् , पण्णां पदार्थानां वर्गः' इत्यादौ भेदाभावेपि पष्ठयाद्युत्पत्तिप्रतीतेः । न हि भवदा षट्पदार्थव्यतिरिक्तमस्तित्वादीप्यते । ननु सतो ज्ञापकप्रमाणवि. षयस्य भावः सत्त्वम्-सदुपलम्भकप्रमाणविषयत्वं नाम धर्मान्तरं५ षण्णामस्तित्वसिष्यते, अँतो नाने नानेकान्तः; तदसत्ः षट्पदार्थसंख्याव्याघातानुपाट, तस्य तेभ्योन्यत्वात् । ननु धर्मिरूपा एव ये भावास्ते पट्पदार्थाः प्रोक्ताः, धर्मरूपास्तु तद्व्यतिरिक्ता इष्टी एव । तथा च पदार्थप्रवेशकग्रन्थः-"एवं धर्मेंविना धर्मिणामेव निर्देशः कृतः" [प्रशस्तपादभा० पृ० १५] इति! अस्त्वेवं तथाप्यस्तित्वादेर्धर्मस्य षट्पदाथैः सार्धं का सम्वन्धो येन तत्तेषां धर्मः स्यात्-संयोगः, समवायो वा? न तावत्संयोगः, अस्य गुणत्वेन द्रव्याश्रयत्वात् । नापि समवायः; तस्यैकत्वेनेष्टत्वात् । समवायेन चास्य समवायसम्बन्धे समायानेकत्वप्रसङ्गः। सम्वन्धमन्तरेण धर्मधर्मिभावाभ्युपगमे चातिप्रसङ्गः।१५ किञ्च, अस्तित्वादेरपरास्तित्वाभावात्कथं तंत्र व्यतिरेकनिवन्धना विभक्तिर्भवेत् ? अथ तत्राप्यपरमस्तित्वमङ्गीक्रियते तदानवस्था स्यात् । उत्तरोत्तरधर्मसमावेशेन च सत्त्वादेर्मरूपत्वानुषङ्गात् 'षडेव धर्मिणः' इत्यस्य व्याघातः । 'ये धर्मिरूपा एव ते षट्केनावधारिताः' इत्यप्यसारम् ; एवं हि गुणकर्मसामान्यविशेष-२० समवायानामनिर्देशः स्यात् । न होपां धर्मिरूपत्वमेव; द्रव्याश्रितत्वेन धर्मरूपत्वस्यापि सम्भवात् । १ सामान्यविशेषयोः । तन्तुपटादीनान् । २ षट् पदार्था एव समूहः । ३ वस्तुनः । ४ तदेव । ५ षट्पदार्थेभ्यो भिन्नम् । ६ धमिधर्मरूपयोः षट्पदार्थास्तित्वयोः सर्वथा भेदाभेदसद्भावात् । ७ यत्र षष्ठीतद्धितोत्पत्तिस्तत्रात्यन्तिको भेद इत्यस्य । ८ सप्तमपदार्थापत्तेः। ९ अस्तित्वादयः। १० मम वैशेषिकस्य । ११ धर्मिभ्यो धर्माणां व्यतिरिक्तान्वेषणप्रकारेण । १२ श्रूयते । १३ परेण । १४ अन्यथेति शेषः । १५ समवायपदार्थेस्तित्वेन भाव्यं तत्तु तत्रापरसमवायपदार्थेन कृत्वा वर्तते । एवं तस्यानेकत्वापत्तिर्भवेत् । १६ गगनकुसुमाद्यस्तित्वाद्योधर्मिधर्मभावः स्यादित्यतिप्रसङ्गः । १७ यत्र षष्ठी विभक्तिस्तत्रात्यन्तभेद इत्यस्मिन्पक्षेऽनैकान्तिकं दूषणमुद्भावयति जैनः । १८ सामान्यस्य। १९ सत्ताया अस्तित्वं गोत्वादेरस्तित्वमित्यत्र । २० अनेकान्तदोषपरिहाराय परेण। २१ अपरापरास्तित्वसद्भावात् । २२ दूषणान्तरम् । २३ पूर्वस्य पूर्वस्य । २४ अर्थात्-एकस्यैव द्रव्यस्य निर्देशः स्यात् ।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy