SearchBrowseAboutContactDonate
Page Preview
Page 692
Loading...
Download File
Download File
Page Text
________________ ५३० प्रमेयकमलमार्तण्डे [४. विषयपरि० विरुद्धधर्माध्यासोपि धूमादिनानैकान्तिकत्वाचावयवावयवि. नोरात्यन्तिकं भेदं प्रसाधयति । न खलु स्वसाध्येतरयोर्गमकत्वागमकत्वलक्षणविरुद्धधर्माध्यासेपि धूमो भिद्यते । नन्वत्रापि सामग्रीभेदोस्त्येव-धूमस्य हि पक्षधर्मत्वादिकारणोपचितस्य ५स्वसाध्यं प्रति गमकत्वम् , तद्विपरीतकारणोपचितस्य सामग्र्यन्तरत्वात्साध्यान्तरेऽगमकत्वम्, न त्वेकस्यैव गमकत्वागमकत्वं सम्भवति; इत्यध्यन्धसर्प बिलप्रवेशन्यायेनानेकान्तावलम्बनम् ; धूमस्याभिन्नत्वात् । य एव हि धूमोऽविनाभावसम्बन्धस्मरणादिकारणोपचितो वन्हि प्रति गमकः स एव साध्या. २०न्तरेऽगमक इति । अथान्यः स्वसाध्यं प्रति गमकोऽन्यश्चान्यत्रागम का; तर्हि यो गमको धूमस्तस्य स्वसाध्यवत्साध्यान्तरेपि सामर्थ्यादेकरसादेव धूमानिखिलसाध्यसिद्धिप्रसङ्गाद्धत्वन्तरोपन्यासो व्यर्थः स्यात् । किञ्च, अतोऽप्राप्तपटावस्थेभ्यः प्राक्तनावस्थाविशिष्टेभ्यस्त१५ न्तुभ्यः पटस्य भेदः साध्येत, पटावस्थाभाविभ्यो वा? प्रथमपक्षे सिद्धसाध्यता, पूर्वात्तरावस्थयोः सकलभावानां भेदाभ्युपगमात्। न खलु यैवार्थस्य पूर्वावस्था सैवोत्तरावस्था पूर्वाकारपरित्यागेनैवोत्तराकारोत्पत्तिप्रतीतेः । द्वितीयपक्षे तु हेतूनामसिद्धिः, न खलु पटावस्थाभावितन्तुभ्यः पटस्य भेदाप्रसिद्धौ विरुद्धधर्मा२. ध्यासविभिन्नकर्तृकत्वादयो धर्माः सिद्धिमासादयन्ति । कालात्ययापदिष्टत्वं चैतेषाम् ; आतानवितानीभूततन्तुव्यतिरेकेणार्थीन्तरभूतस्य पटस्याध्यक्षेणानुपलब्धेस्तेन भेदपक्षस्य बाधितत्वात् । 'तन्तवः पटः' इति संज्ञाभेदोप्यवस्थाभेदनिबन्धनो न पुनईव्यान्तरनिमित्तः। योषिदादिकरव्यापारोत्पन्ना हि तन्तवः कुवि२५न्दादिव्यापारात्पूर्व शीतापनोदाद्यर्थासमर्थास्तन्तुव्यपदेशं लभन्ते, तद्व्यापारातूत्तरकालं विशिष्टावस्थाप्राप्तास्तत्समर्थाः पटव्यपदेशमिति। विभिन्नशक्तिकत्वाद्ययवस्थाभेदमेव तन्तूनां प्रसाधयति न त्ववयवावयवित्वेनात्यन्तिकं भेदम् । १ हेतुः। २ चक्षुरादिना च। ३ ययोविरुद्धधर्माध्यासस्तयोरात्यन्तिको भेद इत्यनुमाने। ४ उक्तमेव समर्थयन्ति। ५ महानसादौ । ६ जलादौ। ७ आदिना पक्षधर्मत्वादिग्रहणम् । ८ विरुद्धधर्माध्यासात् । ९ जैनैः। १० स्वात्मोपलब्धिम् । ११ विरुद्धधर्माध्यासादयो यदि भेदप्रसाधका त भवेयुस्तदा कथं संशाभेदो भविष्यबीत्याह । १२ साधनम् ।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy